नियोगकाण्डः 289 विवेकेन विधिमध्ये गुणमात्रफलवादित्यदोषः । किंच ईदृशं वस्तु अभूत् अस्ति भविष्यति वा इति कालत्रयस्यान्यनरेण संसृष्टया सत्तयान्वितस्य द्रव्यस्य प्रतीतिरिति हेतेर्न केवलं विधिद्ध्ये विधातुं क्षमः ; प्रत्युत दुष्यति यावत् , वरूपहानात् । कालकर्नानाच्छन्नभावार्थविषयतास्वरूपो हि सः । न हि ‘यजेत्’ इत्यादौ कालत्रयस्य मध्येऽन्यतरेण विशिष्ट सत्ता प्रतीयते । ननु विहितमनुष्ठास्यते, अनुष्ठेयं च भविष्यति ; अतश्च भविष्यकाल तस्य सत्ता प्रतीयते । नैतत् । न विहितमवश्यमनुष्ठीयते ; अन्यथा हि तस्याकरणं न स्यात्; अतश्च "अकुर्वन्विहितं कर्म " इति दोषश्रुतिरनॅथिका स्यात् । तस्मात्सूक्तम्-- कालत्रयान्यतरसंस्परौ स दुष्य तीति । ननु यथा " सोमेन यजेत" इति सोमविशिष्टहोमक्रियाविधिवाक्य मेव तद्विशेषणे सोमे प्रमाणं न पृथक्, तया ‘एवंभूत आत्मा प्रति- इति प्रतेपत्तकतेव्यताप्रमणमेवात्मखरूपे प्रमाणम् अतः कृथ• मप्रमाणिकात्मतवप्रतीतिरित्याशङ्कयोच्यते-विशिष्टेति । अन्यस्यां याग क्रियायां सोमविशिष्टायां य विधिः स एव विशेषणं सम प्रमाणं भवति । एवंभूत आरमा प्रतिपत्तव्यः' इतेि विहिता प्रतिपत्तिस्तु आत्मस्वरूप विशिष्टा प्रतिपत्तिविषयस्यात्मनो विजरादिरूपस्य सत्तां नियोगतो नियमेन न साधयति । कुत्रः ? समारोपेणातदूषे तदुपाध्यारोपेणापि “असौ वाव लोके गौतमानिः” इतिवत् संभवादित्यर्थः । श्रुतौ लोकशब्देन द्युलोकादि- रुच्यते । वैदिकलौकिकभेदेन विधायकवर्तमानापदेशभेदेन वा विशेषणैकत्वा नकवभदन वा वृत्ता दृष्टान्तद्वयमुक्तम् । समारोपेण बुद्धेः संभवादित्युक्तमसहमानश्चोदयति--नन्विति । न शब्दो निषेधार्थः । विपरीताऽथ विषय यस्याः स, तादृशी अन्यदन्यथा गृहती घर्न भवति । कुतः ? य एवाथ यस्यां संविदि भानि स तस्य विषयो नान्यत्_ । तत्र रजतं भाति । शुक्तिर्विषय इति प्रतीतिर्विरुद्धम् । यदि च ज्ञानमन्यऽन्यथा गृहीयात् ततो व्याभचारशङ्कया सर्वत्रानाश्वासः
- तयैव’ इति निश्चयो न स्यात् । यदि शुक्ति. रजततया न भाति, किं
नामायं शुक्तौ रजतप्रत्यय इत्यपेक्षयामाह-- रजतेति । न तावदिदं रजतज्ञानमिन्द्रियसंयोगजम् , असंनिहितेन । रजतेनान्द्रियसंयोगाभावात्