पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 ब्रह्मतिविव्याख्या ऽर्थः कथं नु नाम प्रतीयतामिति तत्र युक्ता पदानां समभिव्याहृतिः समुच्चारणं न पदार्थमात्रप्रतिपादनप्रयुक्त, तन्मात्रस्य व्यवहारानङ्गत्वात् । विशिष्टता पदार्थस्य न संसर्गमन्तरेण । तस्मादेवमपि सर्वे एव पदार्थाः संसर्गाक्षेपक्रा न एव नियोग । असे नियोगाभावेऽपि पदार्थानां संसर्ग उपपद्यते । न संसर्गाय वेदान्तेषु नियोगानुप्रवेशः कल्प्यत इत्यर्थः । तत्रापरः प्रत्यवतिष्ठते-कथमिति । नियोगपरत्वेन लोके पदानां व्युत्पत्तेरवश्यं वेदान्तेषु नियोग उपास्यत इत्यर्थः । तव्यभिचारयति- नैतदिति । स्वरूपपरादपि व्युत्पत्तेः नैतदैकान्तिकमित्यर्थः । न चात्रापि ‘आनय' इत्यादिर्नियोगः करुय्यः; अग्निसत्तामात्रप्रत्ययेनैव तदर्थिनः । स्वयमेव प्रवृत्तिसिद्धेर्न वाक्यस्य नियोजनसामर्थे शक्यं । कल्पयितुम् । कंच पदार्थमात्रे पदप्रयेगविशिष्टार्थप्रत्यययोरनुपपच्या नियोगान्वयः करप्य । तयोश्च येन केनचित् पदार्थान्तरेणान्यवेऽप्युपपत्तेः न नियोगा । प्रमणमस्ति । यदि च लोके नियोगान्वयो दृष्ट इति वेदेऽपि तथा- न्वये श्रीयतें ततो लोके प्रमाणान्तरविषयत्वेनान्वयो दृष्ट इति वेदेऽपि तथा स्यात् । न च तत्र प्रमाणान्तरमस्ति । अतो वेदार्थः शब्दप्रमाणको न स्यादित्युक्तम् । AS अथ प्रवृत्तिनिवृती वाक्यस्य प्रयोजने, नान्ये । ते च कर्तव्यता- ज्ञानाधीने । तन च कर्तव्यताज्ञानाद्विना वाक्यस्यानर्थक्यम् । अतो वेदान्तेषु विधिरुपास्यत इत्युच्यते । तत्रोच्यते --' आत्मा प्रतिपत्तव्यः’ इति प्रतिपत्तिविधौ सत्यप्यारमप्रतिपत्तेः उत्तरत्र प्रवृत्तिनिवृयोरभावात् वाक्यानर्थक्यं तुल्यम् । तयोरभावेऽपि आत्मस्वरूपप्रतिपत्तिरेव विधेः प्रयोजनमिति चेत् , समानमेतत् खरूपनिष्ठेऽपि वाक्ये । ननु न प्रति पत्तिविधौ तप्यमानर्थक्यम ; यावता प्रक्रियोपासनाद्यधिकारविधिमि- रुपापस्यात्मनो विषयभूतस्य वरूपावगममन्तरेणानुपपद्यमानैः अपेक्षित मर्थमुपास्यमारमखरूपं समर्पयति प्रतिपत्तिविधिः ; अतो नास्यानर्थक्यमिति । अत्रोत्तरं समनमेतदित्यनुवर्तनीयम् । स्वरूपनिष्ठानामपि वेदान्तादामुष सनादिविषयभूतात्मखरूपसमर्पकत्वं समानम् । अतश्चैवमपि प्रतिपत्तिविधिः उर्वर्थ एवेत्यर्थः । विज्ञाय प्रज्ञां कुर्वीत " इति प्रशाक्रिया उपासन