पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ed | * । ११ इति निश्रीयते । ततश्च श्रेयःसधनत्वे सतिं प्रयोगः तदभावे च प्रयोग इत्यन्वयव्यतिरेकयोरुपपत्त न प्रमाणान्तरगम्यत्वस्य शब्दार्थत्वे किंचि प्रमाणमस्ति । अतः श्रेयःसाधनतायाः शब्दार्थत्वे प्रमाणान्तरगम्यतापि शब्दार्थः स्यादिति यदुक्तं तन्निरस्तम् । यदि पुनर्यथोक्तप्रकारं विना अन्वयव्यतिरेकमात्रेण शब्दार्थत्वं स्यात्, ततः सत्तावृक्षत्वादिषु सत्सु शिंशपायाँ प्रयोगात् तदभावे च नृशृङ्गादवप्रयोगात् सत्तादयोऽपि शिंशपाशब्दर्थाः स्युः । अथ नृशृङ्गादौ शिंशपार्थामाद्देवाप्रयोगोपपत्तेर्न सत्तधभावस्याप्रयोगहेतुत्वम् , “ अतो न सत्तादेः शिंशपशब्दार्थत्वमि- युज्यते, तछिडदावपि समानम् । यथा चैतत्तथोक्तम् । अथ श्रेयसाधनता प्रमाणान्तरगया; सा चेद्विध्यर्थः स्यात्, ततो वेदे प्रमाणान्तराभावात् प्रामाण्यं न स्यात् । अतः प्रमाणान्तरानवगम्य एव वेदे विध्यर्य इत्युच्यते, तदसत् । न हि य एकत्र यस्य प्रमाणस्य गांचरः सोऽ न्यत्रापि तस्यैव गोचरः, तप्रमाणाभावे वा प्रतीयमानोऽपि मिथ्या भवति ; यतः समीपे वहिरिन्द्रियगोचरः, दूरे स्वनुमानादिगोचरः । न स एकेन्द्रियगोचर, इति सर्वत्रैव तथा ; न च प्रतीयमानो वा मिथ्या । तेन यदि नाम लोके भोजनादावितरफले श्रेयःसाधनता अन्वयव्यतिरेकाव गया, तथापि व्यवहितफलेषु यागादिष्ववयव्यतिरेकाभावात् शब्दैकगम्या वेदे मविष्यति । को दोषः ? वैदिकी श्रेयःसाधनता प्रमाणान्तरानुप" लब्ध्या बाध्यते, यथा प्रत्यक्षानुपलब्ध्या बाध्यते शशभृङ्गमित्ययं दोष इति चेत; नायमपि दोषः -यतः प्रमाणान्तरं दृष्टविषयम् ! अदृष्ट- विषयस्तु शब्दः । तेनादृष्टं प्रमाणान्तरस्य विषय एव न भवति । न च यो यस्याविषयः स तेनानुपलब्ध्या बाध्यते, यथा चक्षुषानुपलब्ध्या रसः । शशङ् च न केनापि प्रमाणेन गूयते । श्रेयःसाधनता तु शब्देन गम्यते । न चैकमाणगम्यमन्याशनाद्वध्यते रसवदेव । अथ प्रमाणान्तर विषया चेत साधनता वेदे लिङर्थः स्यात्, ततः प्रमाणान्तरविषये प्रमाणान्तरेण विरोधात वेदस्याप्रामाण्यं स्यातः अस्ति च यागादौ अनन्तर फलनुपलब्धेस्तथैव विशेषः; प्रमाणान्तराविषये तु लिङर्थे नैष दोष इति प्रमाणान्तराविषय एव वेदे विध्यर्य आश्रीयते, नेतर इति चेत्; तदसत्; यंतो यदि वेवे फलस्यानन्तर्यं चोविंतं स्यात्, ततोऽनन्तरफलानुपलप्या मिरोषः स्यात; न स्वेतवति । तदुक्तम् -"आनन्तर्यं प्रचोदितः इति ।