पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगाण्डः 223 लोकावगम्यं शब्दसामर्यम् : लोके च प्रमाणान्तरोपलब्धिः पदार्थसंसर्गस्य प्रयोजिका दृष्टा; अतो वेदान्तेषु तदभावान्न विशिष्टोऽर्थः पदार्थसंसर्गस्य प्रयोजकः, तेन विधिराश्रीयत इत्युच्यते ; ततो वेदान्तेषु विधिमत्वेऽपि प्रमाणान्तरोपलब्धेः प्रयोजिकाया अमावात् विधेपि चालैकिकत्वात् संसा न स्यात् । अतो वृथा तेषु विचिमवकल्पनाले श इत्याशयः । अथ शब्दानां पदार्थमात्रपरत्वे विशिष्टार्थप्रत्ययानुपपच्या पदार्थमात्रेण च व्यवहाराभावात् तदर्यशब्दप्रयोगानुपपच्या च यार्थापत्तिस्तया संसर्गमात्र परस्वं शब्दप्रयोगस्य गम्यते, न तु प्रमाणान्तरोपलब्धिप्रयुक्तसंसर्गविशेष- परत्वम् , विनापि तत् संसर्गमात्रपरत्वेनापि प्रयोगप्रत्यययोरुपपत्तेः । अतो विनापि प्रमाणान्तरोपलब्ध्या विधिमच्वे स्यादेव संसर्ग इत्युच्यते ; तन्न, लोके प्रमाणान्तरोपलब्धेरप्रयोजकत्वात् , विनापिं तया शब्दानां संसर्गमात्र परत्वसामथ्र्येनैव वेदान्तेषु विशिष्टार्थावगतिसिद्धेः । अतः किं विधिन ? अथ न लोके प्रमाणान्तरोपलब्धिप्रयुक्तः संसगः, किंतु शब्दानां संसर्ग- परत्वकुत एव ; सत्यता संसर्गस्य प्रमाणान्तराधीना; तथाहि-यत्रापि श्रोतुः प्रमाणं नास्ति, तत्रापि वक्तृप्रमाणं विना बुद्धादिवाक्येष्वसत्य त्वात् वक्तृप्रमाणान्तरमुरवेन ससर्गः सत्यतां लभते ; तेन प्रमाणान्तरा- प्रयुक्तोऽपि प्रमाणान्तराधीनसत्यत्व इति प्रमाणान्तराधीनो लोके संसर्ग उच्यत इति चेत् ; भवत्वेवं लोके ; वेदे त्वपैौरुषेयत्वादेव वक्तृप्रमाण संस्पर्शाभावात् खातयेणार्यनिश्चयात् न सत्यत्वार्थमपि प्रमाणान्तरस्यापेक्षा शब्दादेव संसर्गस्य सत्यतावगमात् शब्दनिबन्धन एव सः । एवं च सति न संसर्गज्ञानार्थं न च तत्सत्यताएँ वेदान्तेषु विधिरुपास्यत इति तात्पर्यार्थः । इदानीं भवतु लोके यया तथा वा; वेदे तु संसर्गस्य विध्यधीनत्वं यदुकं तत्कथमिति पर्यनुयुज्यते-कथामिति । वेदे पदार्थसंसर्गस्य विध्य धीनत्वं कथम्? न हि संसर्गसामान्यस्य तद्विशेषस्य बा बोधको विधिः। अथ विशिष्टविषयो विधेिनैकपदार्थविषयः ; न च संसर्गमन्तरेण विशिष्ट- विषयसिद्धिः ; . अतः संसर्गं विना निविषयो विधिर्घथा स्यात् ; दोन संसर्गमांक्षिपतीति यद्युच्यते, तत्र यतो विधिपदादन्येन पदेनोदिते उक्तेऽ- यथै यमिदं वृथात्वम्_३ यतोन्योऽर्षेि पद्यों विशिष्टार्थावगत्या