ZZ८ बलसाडव्याट ज्ञानात् व्यवहारानुपयोगेन निष्प्रयोजना । तस्मात् विशिष्टार्थविवक्षा- अमितसंसृष्टेषु पदार्थेषु भवति । सा पदार्थानां संसर्गप्रयुक्तेति चेत् उच्यते--एवं तर्हि विवक्षाप्रयुक्तत्वात् ’तन्निबन्धन एव पदार्थसंसर्गः, न प्रमाणान्तरनिबन्धनः । न हि प्रमाणान्तरं तस्यावबोधकं प्रयोजकं वा । यत्र प्रमाणान्तरसिद्ध विवक्षातः प्रमाणान्तराधीनो लोके संसर्ग इत्युक्तम् ; तस्रोऽच्यते--भवतु प्रमाणान्तरसिद्ध वित्रक्षा, न तु प्रमाणान्तरस्य संसर्ग प्रत्युपयोगः, विनापि प्रमाणान्तरमनाप्तवाक्येऽपि पदार्थसंसर्गप्रतीतेः । यत्तु प्रमाणान्तराधीनः संसर्ग इस्यत्र कारणमुक्तम् -प्रमाणान्तरविरोधे जर ब्रवादिवाक्ये न संसर्ग इति, तत्रोच्यते--कामं भवतु तद्विरोधान्न संसर्गः ; तथापि तु न ततः संसर्गः, विप्रलम्भकवाक्येऽपि तरप्रतीतेरेव । न च यद्विरोधे यत्र भवति तत् तदधीनं स्यात् ; न शतपविरोधे न छायेति सा तदधीना । किंच प्रमाणान्तराविरोधे नासंसर्ग इत्यप्यसिद्धम् , यतोs नाप्तवाक्ये तद्विरोधे नासंसर्गः, अपितु संसर्गः प्रतीयते । अयं त्वाप्त- वाक्यादस्य विशेषः -यदत्र प्रतीतेऽपि प्रमाणान्तरेण बाध्यते, न तु प्रतीयत एव । यदि त्वनाप्तवाक्ये संसर्गप्रतीतिरेव न जाता बाध्यते, ततोऽनृतं नाम वचो नानर्थकाद्धेित ; अतश्च अमृतम् , अनर्थकम्, सत्यम्' इति वाक्यवैविध्यं लोकसिद्धे बाध्येत । अथ प्रमाणान्तरेणोप लभ्यार्थे विवक्षित्वा पुरुषः परसैमै वाक्येन प्रतिपादयति । तेन प्रमा णान्तरोपलब्धिरेव विशिष्टाप्तवचसो विषयः । विशिष्टार्थविषयतया च सा विशिष्टा ; न खतः, निराकारत्वात् । विशिष्टश्चार्थः पदार्थसंसर्गसाध्यः नैकपदसाध्यःतस्य सामान्यमात्रविषयत्वात् । अतः सा विशिष्टा नासंसृष्टेषु पदार्थेषु वाक्यादवगम्यत इति तत्संसर्गमाक्षिपति । वैदे तु प्रमाणान्तरोपलब्धेः पदार्थसंसर्गप्रयोजिकाया अभावान्न संसर्गसिद्धिरिति तस्मसिद्धये विधिराश्रयितव्य इत्युच्यते ; तत्र ब्रमः -मा भूद्वेदे प्रमा णान्तरोपलब्धिः, तथापि तत्र विधिर्नाश्रयितव्यः । किं तर्हि तत्र पदार्थ संसर्गप्रयोजकम् ? सत्यज्ञानानन्तब्रह्मरूपो विशिष्टोऽर्थ एव । यदि पुंवचसः प्रमाणान्तरोपलब्धिरर्थ इति सा तत्र स्वप्रतिपत्तये पदार्थसंसर्गे प्रयु ततो वेदान्तानामानन्दादिरूपं विशिष्टं व्रक्षार्थ इति तदेव स्वप्रतिपत्तये वेदान्तेषु पदार्थसंसर्ग प्रयोक्ष्यते । किं विधिनेति भावः । अथ
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५७
दिखावट