पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ ।ऽ 7 । खसिद्धये प्रयुज्यते । 'अत्राक्षिप्यते--विशिष्टा खार्थावगतिः कथं नाम भवत्विति ; एतदर्थ पदेन पदार्थसंसर्गः प्रतिपाद्यत इति यावत् । न च पदार्थसंसर्गं विना विशिष्टार्थसिद्धिः । तां च विना नापूर्यप्रतीतिः । पदार्थमात्रस्य संबन्धज्ञानसमये पूर्वमवगतत्वात पदानि सर्गयुक्तार्थाभिधान द्वारेण संसर्गस्य प्रमाणम् । न पदैः खार्थमात्रनिष्ठतया खर्थाः प्रत्या- थ्यन्ते ; किंतु विशिष्टार्थप्रतिपत्तये, तथा व्यवहारोपपत्तेः । एवं च सति प्रतिपदार्थं संसगौंकाङ्क्षा । अतोऽन्येऽपि पदार्थः संसर्ग विनानर्चकः सन संसर्गमाक्षेप्तुमलमिति को विधेर्विशेषः? एवं च विधिना बिना वेदान्तेषु सत्यज्ञानादिपदार्था एव संसर्गाद्याः प्रयोक्ष्यन्ते, किं विधिनेति भावः । लोके नुद्धिपूर्वप्रयुक्तानामानर्थक्यमयुक्तम्; अतः संसर्गर्थता युक्ता; वेदे पुनरबुद्धिपूर्वं पदार्थानामर्थवत्वे प्रमाणाभावान्न तथा । पदार्थः संसर्गमनाक्षिपन् यद्यनर्यको भवति, भवतु; न तु संसर्गमाक्षेप्तुमलम् । अतः संसर्गाय तत्र विधिरुपास्यत इति चेत् , तन्न ; अस्ति हि वेदेऽ• प्यध्ययनविधिरर्थयस्वे प्रमाणम् । यथोक्तं लोके बुद्धिपूर्वप्रयुक्तानामानर्थक्यं मा भूदिति संसर्गावेदकत्वमिति, तदसारम्; यतो नैषां प्रमाणभावं ब्रूषे, तसो विधिः कस्म।डेतोः नैवं ननर्थः, तस्यापि वैदिकत्वात् पदार्थान्तर बदर्यवच्चे प्रमाणाभावाविशेषात् । अतः सोऽपि न संसर्गे प्रयुञ्जीतेत्याशयः। यदि च संसर्गे - विना बुद्धि पूर्वप्रयुक्तानामानर्थक्यम्- भवतु; तथापि पदार्थानां संसर्गप्रयुक्तखार्थाभिधानसामर्थं विना निष्प्रमाणकः संसर्गः प्रतिपतुमशक्यः । अप्रमाणप्रतिपत्ती हैि। अप्रमाणकत्वाविशेषात् / यस्य कस्यचित्संसर्गस्य प्रतिपत्तिः प्रसज्येत, न विशिष्टस्य । तस्मादवश्य मेवमभ्युपगन्तव्यम्--यसंसर्गप्रयुक्तखार्थावबोधसामर्थे पदार्थानां व्यवहारा- ब्रम्यत इति । एवं चेत् ततो वेदान्तेऽपि सत्यानन्तज्ञानादिपदार्थानां संसर्गातेपकत्वं समानमिति ऊि तदर्थं विधिनेत्यर्थः अय विधिपदादपरमन्यत्पदं प्रमाणान्तरसिद्धेऽर्थे प्रयोग ; न तु विधायकः शब्दस्तथा, विधेः प्रमाणान्तरागोचरत्वात् । अतस्तदयों विषायकायै विषिः विधायकाच्छब्दान्मीयमानो यस्मादनन्यगम्यः प्रमा- णन्वरागोचरः, तस्मात प्रमाणान्तरावशीकृतोऽपूर्वमपि संपष्टपं विषयं