सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

21A गोचरोऽपि मणिमञ्चकादौ सर्वत्र समानो बुद्धिरूपान्वयः; तथाहि माणिकेषु परस्परं यादृशो रूपान्वयः प्रोद्धृतःन तादृशे इष्टमलकस्य मणिके ; न च तावतावान्तरभेदमात्रेण मृजातिहीनं मणिमङ्कादि, तस्य मृत्यात्मना किंचितुल्यतयावभासनादित्यर्थः । अय सोंऽयम्' इति पूर्वापरानुसंघानं पूर्वावमर्शः, अत्रोच्यते पूर्वेति । खण्डमुण्डवदिति वैधर्यदृष्टान्तः । अय यद्यपि दृष्टमणिकस्य मङ्के ‘सोऽयम्' इत्यनुसंघानं न भवति, तथापि विमृशतः “ तज्जातीय मिदम्’ इति पश्चाद्भवति ; तेन तत्र मृजतिरिष्यते ; ततो दृष्टसतः सदन्तरेऽपि तत्समानमिति सत्तापि किं नेष्यते ? तदेतदाह-विमृशत इति । ननु यदि मणिकेषु मणिकत्ववत् मणिकमञ्चकयोरपि मृज्जातिरस्ति ; ततस्तुल्ये सामान्ययोगे मणिकेषु ’सोऽयम् ’ इत्यनुसंधानं द्राक् , न मणिमञ्चकयोरित्यत्र को हेतुरिति पृष्टं उत्तरमुच्यते--सामान्येति । तव• मिति ; ‘सोऽथम् ’ इत्यभेदः प्रकाशत इत्यर्थः । मणिकेषु परस्परं मृच्वं मणिकत्वमवयवसामान्यानि च भूयांस्यनुवृत्तानि ; मछठे तु मृच्वमात्रमित्यतो माणिकेषु पूर्वावमज्ञ , न मणिकमङ्कयोरित्यर्थः । एकशब्दप्रवृत्तिश्च दण्ड्यादिवदुपेयताम् ’ इत्युक्तम् तद्दूषयति प्रमाणमिति । प्रमितिकार्यानुमेयप्रमाणेनासंयोज्य प्रथमं पूर्वमेवास्तिषीर्यतो जायते, अतो न प्रमाणसंयोजननिमित्ता ; तन्निमित्तत्वे हि प्रमाणे जाते तत्संयोज्य पक्षबाधेत, न पूर्वमेव ; न हि दण्डसंयोजनात्प्रागेव “ दण्डी’ इति भवति । अतो न दण्ड्यादिसमानतेत्यर्थः । न चास्तिवृद्धिरव प्रमाणम् , अस्तिबुडेरेकस्या निमित्तनैमित्तिकत्वविरोधात् , स्वसंबन्धस्य च स्वयमज्ञानात् प्रागुक्तसमस्तदोषप्रसङ्गाच्चेति भावः । अत्र परो दुष्टाभि प्रायः पृच्छति--यदीति । यदि न प्रमाणयोगोऽस्यर्थः, प्रमाणयोगत्रैकाल्ये नार्थस्य कथं त्रैकाल्यम् ‘अभूत्, अस्ति, भविष्यति ’ इति ? अतः प्रमाणयोग एवास्त्यर्थ इति तद्दुर्थोऽभिप्रायः । अत्रोत्तरमाह--तदिति । कालभेदेनोपाधिना कल्पितमेदोऽस्त्ययैः त्रैकाल्येन भाति व्यपदिश्यते च । तेन प्रमाणकालेनोपाधिना कल्पितो भेदे यस्यास्यर्षस्य स तथोक्तः । अत्र दृष्टान्तमाह--देवदत्तेति । यथा देवदत्तसत्ता देशविशेषोपाधिकल्पित