पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमभ्युपगमवादं समाप्य प्रकृतमुपसंहरति---एवमिति । मेयता अत्र इत्युपलक्षणम् , मानयोग्यताद्यपि द्रष्टव्यम् । ‘परः प्रत्यवतिष्ठते - नन्विति । अन्येति ; सामान्यरूपेत्यर्थः । तत्र हेतुमाह--न हीति । पूर्व व्यक्त्यन्तरे दृष्टस्य पुनर्यक्त्यन्तरे परामर्शः पूर्वावमर्शः । इष्टं सत सर्षपादि येन तस्य, सदन्तरे मेरौ न तथेत्यर्थः । न च ‘ सत् ’ इत्येकः शब्दप्रख्यन्यथानुपपथा एका जतिः कक्ष्या, दण्ख्यादिवदन्यथाप्युपपत्ते रित्याह-एकेति । पूर्वनिरस्तमपि दण्ड्यादितुल्यत्वं सरासद्भावप्रमाणाभावा- वष्टम्भेन पुनरुपन्यस्तम् । वरमेवम्, न स्वप्रतीयमानसत्ताकल्पनेत भावः। अत्रोत्तरमाह--अत्रेति । नुशब्दः संबोधने । योऽयं सामान्यकरपना स कृः ? पर आह~ पूर्वेति । पूर्वमेकस्यां हेतुस्स्वयोक्तः पूर्ववमर्शः व्यक्तां बुद्धेः रूपमाकारः, तस्य व्यक्त्यन्तरे योऽन्वयोऽनुगमोऽनुवाकः- यथा भी ’ इति बुद्धौ गोवरूपस्य- पूर्वावमर्श इत्युक्तम्, प्रतिव्यक्ति गगः तत्र दोषमाह- सदन्तरेति । दृष्टसतः पुंसः सदन्तरं सोऽस्येव बहूनां अन्यथा रूपाणामननुगमेऽपि कयाचित् खछ मात्रया किंचिन्मात्ररूपेण ; यथा सद्योऽसन्निरुपाख्यमत्यन्तविलक्षणं भाति, तथा सन्तोऽपि मिथोs. त्यन्तविलक्षणाः प्रकाशेरन् ; न चैवम् । खरिवति प्रसिडिसूचनार्यम्। अथ सर्वात्मना तत्र धियः पूर्वरूपान्वयो नास्तीत्युच्यते, तत्राह--सर्वेति । सर्वात्मना तु धियः पूर्वरूपान्वयः खण्डमुण्डादिव्यक्तिष्वपि नास्त्येव ; तत्र गोत्वमद्यापि सामान्यं न स्यादिति भावः । यदि तु तासु सर्वात्मना पान्वयः स्यात् , ततस्तासामैक्यमेव स्यात् । अतश्च गोत्वादिसामान्या- भावापत्तिः स्यात् ; न चैकस्यां व्यक्तौ व्योम्नीव सामान्यमिष्यते, नाना व्यक्त्याश्रयत्वात्तस्य । खण्डमुण्डयोरिति व्यक्तिवैलक्षण्योपन्यासः सर्वात्मन । रूपान्वयाभावदर्शनार्थः १ वण्डमुण्डयोर्योदृश उद्भतरूपान्वयो न तादृशः सत्सदन्तरयोरिति चेत , न तत्रैवन्तरभेदमात्रेण सत्सदन्तरयोः संवेद्यरूपा- न्वयस्यापइवो युक्तः ; अन्यथा देवदत्तस्य पुनर्दर्शने यादृशो बुडेरुहूत रूपान्वयःन खण्डादिव्यक्तिष्विति गोत्वमप्यपद्येत । वेद्यग्रहण , तादृशः मपह्नवे संविद्विरोधप्रदर्शनार्थम् । किंच न केवलमेकव्यक्तौ यादृशः, तादृशः खण्डादिव्यक्तिषु भवति ; अपितु मृत्सामान्य बुद्धिरूपान्वयो