सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवमभ्युपगमवादं समाप्य प्रकृतमुपसंहरति-एवमिति । । मेयता अत्र इत्युपलक्षणम् , मानयोग्यताद्यपि द्रष्टव्यम् । ‘परः प्रत्यवतिष्ठते नन्विति । अन्येति ; सामान्यरूपेत्यर्थः । तत्र हेतुमाह--न हीति । दृष्टं पूर्व व्यक्यन्तरे दृष्टस्य पुनर्यक्त्यन्तरे परामर्शः पूर्वावमर्शः । सत सर्षपादि येन तस्य, सदन्तरे मेरौ न तथेत्यर्थः । न च ‘सत् ? इत्येक शब्दप्रय्त्यन्यथानुपपच्या एका जतिः कर्प्या, दण्ड्यादिवदन्यथाप्युपपत्ते रित्याह-एकेति । पूर्वनिरस्तमपि दण्ड्यादितुल्यत्वं सणासद्भावप्रमाणाभावा वष्टम्भेन पुनरुपन्यस्तम् । वरमेवम्, न त्वप्रतीयमानसत्ताकल्पनेति भावः । अत्रोत्तरमाह--अत्रेति । तुशब्दः संबोधने । योऽयं सामान्यकर पना पूर्वमेकस्यां हेतुस्त्वयोक्तः पूर्ववमर्शः, स कः ? पर आह-पूर्वेति । व्यक्तों बुद्धेः रूपमाकारःतस्य व्यक्त्यन्तरे योऽन्वयोऽनुगमोऽनुष्ठायः— यथा प्रतिव्यक्ति “ गौरैः' इति बुद्धौ गोत्वरूपस्य- पूर्वावमर्श इत्युक्तम् , तत्र दोषमाह- सदन्तरेति । दृष्टसतः पुंसः सदन्तरे । सोऽस्त्येव बहूनां रूपाणामननुगमेऽपि कयाचित् खलु मात्रया किंचिन्मात्ररूपेण ; अन्यथा मिथऽ यथा सद्योऽसन्निरुपाख्यमत्यन्तविलक्षणं भाति, तथा सन्तोऽपि अथ त्यन्तविलक्षणाः प्रकाशेरन् ; न चैवम् । खल्विति प्रसिद्धिसूचनार्यम्। सर्वात्मना तत्र धियः पूर्वरूपान्वयो नास्तीत्युच्यते, तत्राह--सर्वेति । सर्वात्मना तु धियः पूर्वरूपान्वयः खण्डमुण्डादिव्यक्तिष्वपि नास्त्येव ; तत्र गोत्वद्यपि सामान्यं न स्यादिति भावः । यदि तु तासु सर्वात्मना रूपान्वयः स्यात् , ततस्तासामैक्यमेव स्यात् । अतश्च गोत्वादिसामान्या- भावापापतिः स्यात् ; न होकस्यां व्यक्तौ व्योतीय सामान्यमिष्यते, नाना- व्ययाश्रयत्वात्तस्य । खण्डमुण्डयोरिति व्यक्तिवैलक्षण्योपन्यासः सर्वात्मना रूपान्वयाभावदर्शनार्थः ? तादृशः वण्डमुण्डयोर्याटश उद्भतरूपान्वयो न सत्सदन्तरयोरिति चेत्, न तीवान्तरभेदमात्रेण सत्सदन्तरयोः संवेद्यरूपा न्वयस्यापइवो ; अन्यथा देवदत्तस्य पुनदेशेने यादृशो बुडेरुदंत- युक्तः रूपान्वयः, न तादृशः खण्डादिव्यक्तिष्विति गोत्वमप्यपहूयेत । वेद्यग्रहण मपह्नवे संविद्विरोधप्रदर्शनार्थम् । किंच केवलमेकव्यक्तौ यादृशः, न तादृशः खण्डादिव्यक्तिषु बुद्धिरूपान्वयो भवति ; अपितु मृत्सामान्य-