सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 217 अर्थेति । अर्यमात्रे तद्वचः सापेक्षम् । अत्र हेतुमाह--अन्येति वक्तुं प्रमाणद्वारेणार्थं बोधयति, न तु तन्निरपेक्षमित्यर्थः । अन्यत् वक्तृप्रमाणं खसिद्धयेऽपेक्षत इत्यन्यापेक्षः, स चासावर्थश्चेत्यन्यापेक्षायैः, तस्य बोधना दन्पापेक्षार्थबोधनादिति । तदेवं वक्तुरुपलब्धिप्रमाणान्तरनिरपेक्षमेव तद्वचो बोधयतीति तन्निरपेक्षत्वस्ग्रामण्यमश्नुते, तद्रेण बर्थ इति स्थितम् । नन्वर्थं तत्सपेक्षमित्युक्तम्; अतः कथं तत्र प्रामाण्यमुच्यते ? अबाधि- तार्थत्वात् अर्थे तदविसंवादमात्राभिप्रायेणथं तत्प्रमाणमित्युक्तमित्यदोषः । ननु यदि सापेक्षमप्यबाधितार्थं वचः प्रमाणं भवति, तर्हि चैत्यवन्दनावि पुरुषवचः कथमुबाधितार्थमपि तत्सापेक्षत्वदोषदप्रमाणमुच्यत इत्याशङ्क्याह- अबाधितमिति । यद्यपि तत्र नाथं बाधः, तथापि मूलभूते वक्तृप्रमाणे तदपबाध्यते, तथाहि--न तद्वचः प्रत्यक्षादिमूलम् , धमेस्य तदगोचरत्वात् । न च बुद्धस्य मन्वादेरिव वेदसंयोगोऽस्ति । तदेवं प्रमाणांशे तद्वध्यते ; तदभावाच्चार्थेऽपि । तदुक्तम् + पुरुषशक्तितस्तत्र सापवादत्वसंमवः ” इति ; पुरुषस्य धर्म द्रष्टुमशक्तितः तत्र बुद्धवचनादौ अपवादः अप्रामाण्यं तस्य संभव इत्यर्थः । तेन वक्तुः प्रमणेऽर्थे च न तत्प्रमाणतामेति । एवमनाप्तवाक्येऽपि यथासंभवं योज्यम् । ऑप्तवाक्ये तु तद्वैपरीत्येन प्रामाण्यमाह-आप्तेति । प्रमाणांश इति, अर्थं तु सापेक्षमित्युक्तं भवति । एवमाप्तवाक्येषु प्रमाणान्तरसंस्पर्शाऽपि प्रामाण्यमुपपाद्य वेदान्तानामपि प्रमाणान्तरसंस्पर्मे सत्यपि तथैव प्रामाण्यमित्याह--मयेति । यत एवमाप्त- वाक्ये, ततस्तद्वदेव वेदान्ता अपि मानान्तरं खप्रकाशाख्यं प्रलीनज्ञान लैयविभागम् ‘इदं ज्ञानम्, इदं ज्ञेयम्’ इति विभागरहितम्, अत एव अलैकिकं लैकिकात्प्रत्यक्षादेर्शनज्ञेयविभागोपेतादन्यत् प्रवेदयन्तु । तत्सिद्धिद्वारेण चाप्तवाक्यवदर्थस्य बझतच्वस्य सिद्धिः । एवं प्रमाणान्तर संभेदेऽपि वेदान्तानामाप्तवाक्यवत् न प्रामाण्यव्याहतिरित्याशयः । तकि वेदपौरुषेयवचसोरविसेष एव ? न ; पैौरुषेये हि वचासि “ मयेदं प्रमितम्’ इति वक्तृवाक्यप्रयोगेण प्रतिपादितं प्रमाणं श्रोता बुध्यते ; वेदे तु वक्तु- रमावात् मया ’ इति संस्पर्शरहितं प्रमाणान्तरमात्रमवबुध्यते । तादिद मुक्तम्-‘ मया' इति संमेदरहितम् इति ।