संभेदं नेच्छन्ति ; यथोक्तम्-- प्रमाणस्य प्रमेयकोटिप्रविष्टवानेच्छन्ति इति ; तैरपि न प्रमाणान्तरसंस्पर्धेन प्रमाणान्तरमन्वेष्यम् , किमुत येऽर्थ स्वाभावतामर्थस्थां योग्यतां सत्तामाहुस्तैरित्यर्थः । तत्प्रमेयमिति ; तस्याः सत्ताया अविनाभावेन प्रमेयमित्यर्थः । अत्र पर्धोदयति--कथमिति । यदा अस्त्यर्थनिष्ठं वेदान्तवचः प्रमाणयोग्यतामात्रे निवृत्तव्यापारं विशिष्ट स्यानन्दादिरूपयोग्यताविशिष्टस्य योग्यस्य बन्नणः सर्वे न बोधयति, तदा , विशिष्टार्थसवसिद्धये यत्प्रमाणयोग्योऽसावर्थस्तत्प्रमाणं कथं नापेक्षयम् ? अपितु अपेक्ष्यमेवेत्यर्थः । सिद्धान्ती तु पृच्छति--किमर्थ मिति । पर आह--विशिष्टेति । अस्यर्थनिष्ठं वचे योग्यतामात्रं प्रतिपाद्योपरतव्यापारं न विशिष्टार्थसच्वमवगमयति ; अतस्तदर्थे प्रमाणा न्तरमन्वेष्यमित्यर्थः । पुनः सिद्धान्ती पृच्छति--किमिति । किं पुन विशिष्टस्यार्थस्य सर्वम् , यस्यास्त्यर्थनिष्ठेन वचसानवगमेितस्यावगमय प्रमाणान्तरमन्वेष्यमित्यर्थः । पर आह-प्रमाणेति । सिद्धान्याह- अधिगतमिति । यदि प्रमाणयोग्यत्वं विशिष्टार्थसच्वम् , एवं तर्हि अस्यर्थ निष्ठत्वाचसोऽधिगतमेव तत्; यतः प्रमाणयोग्यतैवास्त्यर्थ इत्यर्थः । यद्यपि योग्यताविनाभावेन योग्यस्य सिद्धिरित्युक्तत्वान्न तदर्थ प्रमाणा न्तरभषेक्ष्यमित्युतरमस्ति, तथाप्युत्तरविभवादुत्तरान्तरमुक्तम् । प्रमाणान्तरसंभेदाभावादस्त्यर्थनिष्ठानां वेदान्तानामप्रामाण्यदोषाभाव उक्तः; अधुना तु प्रमाणान्तरसंभेदाभ्युपगमेऽपि न दोष इत्याह-प्रमाणान्सरेति । नोशब्दो निषेधार्थः । प्रमाणान्तरेण मिन्नः संख्येऽर्थो यस्य वचसन स्तदपि नाप्रमाणम् , अपितु प्रमाणमव, यथा- आप्तवाक्यम् । ननु प्रमाणान्तरभिन्नार्थ चेत्, ततः सापेक्षम् ; यच्च प्रमाणम्, तत्कथं सापेक्षभित्याशङ्कचह--निरपेक्षमिति । यच्छब्दारप्रतीषिषितम् “ इदं वस्तु मया प्रमितम्’ इति, इडस्मिन्नर्थे वक्रभिप्रायरूपे श्रोत्रा प्रमाणान्तरेणा ३. अंतीते शब्ददेवान्यनिरपेक्षादवगम्यमाने निरपेक्ष तद्वच इत्यर्थः; तथाहि पौरुषेयाद्वचनात् ' एवमयं पुरुषो वेद ’ इति प्रतीतिः, न तु एवमर्थः इति । 'प्रमितं मया’ इति वक्तुर्वाक्येन स्वप्रमाणप्रकाशनमुक्तम् ; श्रोता तुं प्रमितमनेन ’ इति बुध्यते । क नाम तसापेक्षमित्यत आह
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५०
दिखावट