ZZU । फेवा तत्रैव नान्यत्रेति देशभेदेन व्यवतिष्ठते, तथा कालभेदोपाधिकरिपत भेदा कालभेदेनेत्यर्थः । एतदुक्तं भवति--सत्ता हि जातिः; नातिश्च व्यक्तिदेशा प्रतीयते ; तेन यत्र देशे काले वा प्रमाणेन व्याक्तिः प्रतीयते, तत्र भाति व्यपदिश्यते चेति त्रैकाल्योपपत्तिः। एवं तावत् क्रियया बिना न सर्गः पदार्थानामित्यभ्युपगम्य पूर्व मुक्तम् , अधुना तु ईप्यसिद्धमित्याह-संबन्धेति । राजपुरुषयोर्दूम फलयोश्च संबन्धमात्रेऽवसितम्, अत एवाक्रियमत्यादिक्रियारहितं “ वच आहुरित्यन्वयः । शेषं सुगमम् । इदानीं यदि नाम क्रियारहितं वाक्यं नास्ति, अस्तिक्रियायां चास्तेः प्रमाणयोगनिमित्तत्वात् वेदान्तानां प्रमाणान्तरसापेक्षताद्दोषो भवति, तथापि जनिक्रियां कल्पयिष्यामः ; जनिश्च न प्रमाणयोगनिमिचा ; अतो न सापेक्षतादोषःब्रह्मस्वरूपं च सेत्स्यतीत्याह-जनीति । ईशाश्चेतन दिव्यामूर्तादिरूपात् कारणादिदं जगत् जायत इति जनक्रियावसाना जनिक्रियानिष्ठादपि वाक्याद्विशिष्टं चेतनादिरूपं कारणं शक्यबोध मित्यन्वयः । श्रुत्युपपन्नश्चायमर्थ इत्याह--तथा चेति । आकाशादेवेति ; । बह्मण इत्यर्थः । व्युच्चरन्ति ; उझच्छन्तीत्यर्थः । अपियन्ति ; विलीयन्त '] इदानीं किमायातं विधेरित्युक्तमसहमानो वेदान्तेषु पदार्थसंसर्गायै विधिराश्रयितव्य इति परः प्रत्यवतिष्ठते-नन्विति । प्रमान्तराधीनः संसर्गो येषां ते तथोक्ताः । विध्यधीन आरमसं संश्लेषो येषामिति विग्रहः। पुरुषोक्तेषु यथा प्रमाणान्तराधीनः पदार्थतंसर्गः, तथा दर्शयति--पदाना मिति । घटेन कूपजलमाहर' इति पदानां रचना समभिव्याहारः परस्परान्वितानां सहोच्चारणं वक्तुविंशदार्थविवक्ष परिपूरयेव परिपूर्ण प्रतिपादयेत । न हि आमाहर' इत्येकपदात् सा पूर्ण प्रतीयते । यतो विवक्षा प्रमाणान्तरगम्येऽर्थे व्यवस्थिता, तेन तत्र प्रमाणान्तरापन एट पदार्थसंसर्गः; तथाहि--यत्र प्रमाणान्तरविरोधःतत्रासंसर्गः, यथा जरन्नवादिवाक्ये । वेदे तु प्रमाणान्तराभवार विधिरूपो योऽय नियोगः तसिद्धये । पदार्थसंसर्गविशिष्टार्थविषयो हि विषिः ; न च पदार्थसंसर्ग
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५५
दिखावट