पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

194 ब्रह्मसिद्धिव्याख्या विशेषहेतर्वाच्यः ;' न च सोऽस्ति ) अथ शब्दः प्रमाणान्तराधिगतविषयो लोके ; अतोऽस्माद्विशेषाच्छब्द एव प्रमाणान्तरसंभवे । सापेक्षः, न दष्ट प्रत्यक्षानुमे इति । चेत् , उक्तमत्रोत्तरम् ‘ प्रमाणान्तरस्याविषये तहिं नतराम्' इत्यत्र । उक्तमर्थं प्रपञ्चयति-यदीति । यदि पैौरुषेयपौरुषेयशब्दमात्र- षमेंऽयं प्रमाणान्तराधिगतार्थत्वं नामततः प्रमाणान्तरसंभवादेव बुडादिः वाक्यवदप्रामाण्यं शब्दस्य स्यात् ; प्रमाणान्तरसंभवं एव त्वाप्तवाक्यवत् प्रामाण्यं स्यात् । अतश्च वेदान्तान सिद्धार्थत्वे प्रमाणान्तरसंभवा- दप्रामाण्यम् , कायोथेत्वे तु प्रमाणान्तरासंभवाप्रमाण्यमित्युक्तमयुक्तमिति भावः । अथ पौरुषेयशब्दधमैः स्यात् , ततोऽपैौरुषेयस्य वेदान्तशब्दस्य प्रमाणान्तराधिगतार्थत्वं नास्तीति तस्य सिद्धार्थत्वेन संभवतप्रमाणान्तर- विषयस्यापि न सापेक्षत्वम् । अतो नाप्रामाण्यम् । संभवत प्रमाणान्तरं यत्र तत् संभवप्रमाणान्तरम् , तदेव विषयो यस्येति समासः । पौरुषे- यस्वनिमित्तं हि सपेक्षत्वम् । अपौरुषेयशब्दे सस्यपि संभवस्रमाणान्तर- विषयत्वे निमित्तनिवृत्तौ निवर्तते, न तु शब्दस्वसामन्यात् प्रसज्यत इति भावः । किंच यद्यन्यत्र दृष्टमन्यत्रापि केनचित् सामान्येन स्यात् , ततः स्वरेण पुत्रानुमानं विशेषतः प्रत्यक्षाधिगतविषयं दृष्टमित्यनुमानत्वसामान्यात सामान्यतो दृष्टस्यापि देशान्तरप्राप्या सूर्ये गत्यनुमानस्य प्रत्यक्षाधिगत- विषयता स्यात् । षड्जादि विवेकविषयं च प्रत्यक्षे गानशास्त्रपूर्वं दृष्ट- मिति घटादिप्रत्यक्षमपि तथा स्यात् । न चैवम् । अतो यथा तत्रान्यत्र दृष्टपन्यत्र न भवति, एवं पौरुषेथे सापेक्षत्वं दृष्टमपि नापौरुषेयस्य भूतार्थस्यापि मवितुमर्हति । यदि पौरुषेये यदृढं तदपौरुषयेऽपि स्यात् , ततः पौरुषेयं प्रमाणान्तराधिगतार्थं प्रमाणं दृष्टमित्यपौरुषेथे प्रमाणान्तरा संभवात प्रामाण्यं न स्यादित्युक्तं ननरामित्यर्थः । • मानान्तरस्याविषये वध्यथ तु प्रतिष्ठितम् । अनपेक्षत्वं प्रमाणत्व- मनुते ’ इत्युक्तम्; तत्र दूषणमाह--अञ्चेिति । यदि नेियोगनिष्ठत्वे तत्र प्रमाणन्तरासंभवादनपेक्षत्वेन शब्दस्य प्रामाण्यं भवतीत्युच्यते, तदोषधपानसकताभक्षण(नयागयाः प्रमाणान्तरासभवात्तदनपक्षत्वेन तद्वा कश्योः प्रामाण्यं स्यात् ; न चैतदिष्टम् , एकत्रनुवादकत्वात् अपरत्र च निलवेनाप्रामाण्यादित्यर्थः । अत्र लौकिकवैदिकनियोगवक्ययोः पराभिनेते