पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यात् । प्रमाणान्तरागोचरे तु कार्यं प्रमाणान्तरासंभत्रात् बुद्धवाक्यवत् तत्प्रामाण्यं दुर्लभम् । अथ पौरुषेयत्वकारिता लोकवचसां प्रमाणन्तराधिगत- विषयता, न शब्दसामर्मफारिता ; शब्दस्य तु खनः, प्रमाणान्तरगोचर एवार्थे सामथ्र्यम् ; तेन प्रमाणान्तरागोचरेsपि कार्यं प्रामाण्यं न दुर्दमः मित्युच्यते, तन्न ; यदि शब्दः प्रमाणान्तरानपेक्षसामथैस्तर्हि तुमसमर्थं त्वान्न शब्द एव तद्विषये प्रमाणान्तरसंभवे प्रमाणान्तरसपक्षः स्यात् अपितु प्रमाणान्तरमपि तद्विषये शब्दसापेक्षा स्यात् । झिमतः ! यदीव- मिदमतो भवति प्रमाणान्तरस्य शब्दसापेक्षत्वेनाप्रामाण्यम् ; अप्रामाण्ये च सति तत्संवादविसंवादानुषयोगान्न शब्दस्य तदपेक्षा युज्यते । प्रमाण सापेकं न प्रमाणं भवति । शब्दस्तु न प्रमाणम् । अतो न तदपेक्षया प्रमाणान्तरमप्रमाणम् ; अपितु प्रमाणमेव, अनपेक्षत्वादिते चेत् , तत्रो च्यते—शब्दस्यैवाप्रामाण्यं कुत इति । पर आह -प्रमाणान्तरापेक्षत्वा । दिति । सिडन्ती त्वाह--प्रमाणान्तरस्यापि प्रामाण्यं शब्दानपेक्षत्वात् ; तदनपेक्षत्वं च शब्दस्याप्रामाण्यात् । अतः शब्दप्रामाण्ये तदनपेक्षत्वात् प्रमाणान्तरस्य प्रमाण्यम् ; तप्तामण्ये च तदपेक्षत्वात् शब्दस्याप्रामाण्य- मितीतरेतराश्रयं स्यात् । शब्दस्याप्रामाण्यात् प्रमाणान्तरस्याऽनपेक्षत्वं प्रसघयति-प्रमाणे हीति । यदि शब्दः प्रमाणं स्यात् ततः प्रमाणा न्तरस्य विषये शब्दे संमवति प्रमाणान्तरमपि शब्दसापेकं स्यात् तत्संभव इव शब्दः । तस्माच्छब्दस्याप्रामाण्यात् प्रमाणान्तरस्यानपेक्षत्व- मितेि युक्तमितरेतराश्रयत्वम् । न च प्रमाणान्तरसंभवे शब्दः सापेक्षः, न तु शब्दसंभवे तदिति विशेषोऽस्तीत्यर्थः । यदि च सिद्धार्थं शब्दे प्रमाणान्तरसंभवमात्रेण तत्सापेक्षत्वं स्यात् , एवं सति प्रत्यक्षानुमानयोरपि स्पर्शनकम्पादिलिङ्गयोरेकत्र वयावन्योन्यगोचरे प्रवृतेः परस्परसापेक्षस्व मविशेषं शब्द इव प्रसज्यते । ततश्च तयोरष्यप्रामाण्यं स्यात् । तथे. न्द्रियान्तरविषये यदीन्द्रियं प्रवर्तते तदपि सापेक्ष स्थात् । तदुक्तम्- प्रत्यक्षानुमानयोरित्यादिना । सत्तेत ; रूपादीनां १धानां सत्तागुणत्वे पशेन्द्रियप्रायै ; द्रव्यै तु घटादि त्वक् चक्षुषायमिति विवेकः । अथ शब्दस्यैव प्रमाणान्तरसमव सापेक्षत्वम् , न प्रस्यक्षानुमयरित्युच्यते, ततो । 18