पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रासादव्याख्या न तदनुवादकम् अतो नापेक्षम् ; अतो नाप्रमाणम् । पौरुषेयं हि प्रमाणान्तरलब्धार्थकमिति भावः । १-29 अथ भूतार्थतामात्रमनुवादता, तत्राह--सापेक्षताया इति । स्मृतौ दर्शनादिति ; स्मृतौ प्रमाणान्तरसंस्पर्शस्य प्रमाणान्तरापेक्षाहेतुत्वेन दर्शना दित्यर्थः । एतदेवाह--सा हीति । सा हि स्मृतिः ‘स घटः’ इति पूर्वाधिगतमेव घटं ‘सः’ इति सर्वनाम्ना पूर्वाधिगतपरामर्शिनोचिरवन्त्याधि गमान्तरसंसृष्टार्था जायत इति हेतोस्तस्याधिगमान्तरमपेक्षत इत्यर्थः । अधिगमान्तरेण संभिन्नः संसृष्टोऽर्थो विषयो यस्या इति विग्रहः । अपौरुषेये सिद्धार्थेऽपि वचसि सापेक्षत्वहेतुर्नास्तीत्युक्तम् ; तत्र पर आह-स्यादिति । प्रत्यक्षादिप्रमाणान्तरं सिद्धविषयम् । अतो वैदिक स्यापि सिद्धार्थस्य वचसो विषये प्रमाणान्तरस्य संभवात् तदपेक्षा युक्ते त्यर्थः । सिद्धार्थे प्रमाणान्तरसंभवेऽपि किमिति तदपेक्षत इत्यत आह तथाहीति । प्रमाणान्तरसंबादपेक्षायां च नैरपेक्ष्यलक्षणं वेदान्तानां प्रामाण्यं न स्यादिति भावः । यदा तु प्रमाणान्तरागोचरे कार्यरूपे प्रति पत्तिविध्यर्थं पर्यवस्यन्ति वेदान्ताःतदा तत्रासंभवति प्रमाणान्तरे न कुतश्चित्प्रमाणान्तराद्विसंवादाशीति न संवादाय प्रमाणान्तरमपेक्षणीयम् ; अतो नैरपेक्ष्यलक्षणं प्रामाण्यं सिध्यति । प्रमाणान्तरविषये हि तत्संवादः विसंवादौ स्याताम् , नान्यत्रेति भावः । अत्रोच्यते--न चेति । शब्दविषये प्रमाणान्तरस्य संभवमात्रेण प्रमाणान्तरापेक्षा शब्दे न युज्यते । कुतः यतस्तदा तयोः प्रमाणान्तर शब्दयोः, शब्द एव सापेक्षो न प्रमाणान्तरमित्यत्र विशेषो न गम्येते त्यर्थः ।.शब्दः प्रमाणान्तरसापेक्षो लोके दृष्ट, न प्रमाणान्तरमित्यस्ति विशेषः; तस्माच्छब्दस्यैव सपक्षता, न प्रमाणान्तरस्य अदृष्टत्वात् इति यद्युच्येत, ततः कार्येऽपि प्रमाणान्तरागोचरे शब्दस्य प्रामाण्यं लोके न इष्टमिति तत्रापि बुद्धवाक्यवत् सुतरां शब्दस्य प्रामाण्यं न स्यात् । तदिदं सर्वमाह--यदीति ह नतरामित्युक्तमतिशयार्यमाह -प्रमाणान्तरेति । प्रमाणान्तरविषये हि तत्संभवादपि - तावच्छब्दस्याप्तवाक्यवत् प्रामाण्यं