19 पुनरावृच्यभावोऽपीत्यर्थः । तमर्थवादेनानुवदत्येषा न च पुनरावर्तते इति वर्तमानश्रुतिः । अतो न तमामाण्यादनन्तमोक्षफलवं प्रतिपत्तिवित्रे- रित्यर्थः । अर्थवादत्वमेवास्याः श्रुतेर्दूढयति--तथाहीति । वर्तमानाप- P. 78-1 देशो हि प्रारब्धापरिसमाप्तमाह, नागामि साध्यमिति भावः । यदि च स्वर्गकामादिवत् कामोपबन्धः स्यात् , ततोऽपि साध्यं काम्यते न नित्य- मित्यपुनरावृत्तेः साध्यता गम्येत ; न तु सोऽप्यत्रास्ति । तस्मादर्थवादोऽ- पुनरावृत्तिश्रुतिरित्यर्थः । नन्वर्थवादादपि फलकल्पना दृष्टा ; यथा रात्रिसत्रादौ प्रतिष्ठादेरित्यत आह--अर्यवादादिति । सत्यम् & अनिशंत पारार्येषु सा । निर्जीतपारार्थेषु तु " द्रव्यसंस्कारकर्मपु फलश्रुतिः परार्थत्वादर्थवादः स्यात् ” इति न्यायः पठितः । निज्ञतपारायं च ज्ञानं ज्ञेयतवावभासेन दृष्टेनार्थेन निराकाङ्क्षम् अतोऽत्र न सा युक्तेत्यर्थः । ननु श्रेयस्यात्मनस्तवावभासोऽपि स्खयमपुरुषार्थः; अतोऽ स्त्येव पुरुषार्थाकाङ्क्षा ; तत् कथं । नैराकाङ्क्ष्यमित्यत आह— पुरुषार्थतेति 5 मतान्तरमाशङ्कयाते--अन्य इति । विधेर्विना कार्यशून्यं भूतार्थं यद्वचः, तत् तस्यार्थस्य प्रमाणान्तरगतत्वादनुवादकं स्यात् ; अनुवादश्च प्रमाणान्तरगोचरे भवति ; अतस्तदनुवादकं वचः प्रमाणान्तरापेकं सन् अनपेक्षत्वलक्षणप्रामाण्यमतिवर्तते, न प्रमाणं स्यात. । विध्यर्थं तु कार्ये प्रमाणान्तराविषये यत् प्रतिष्ठितं पर्यवसितं वचः तत् प्रमाणान्तरानपेक्षी सत् प्रमाणत्वं लभते; यथा अग्निहोत्रादिकमेवाक्यम् । अतश्च यद्यप्यात्म तच्वावबोधात् परा उत्तरकालीना प्रवृत्तिर्विधिफलमत्र नास्ति, तथापि वेदान्तानां प्रामाण्यार्थं प्रतिविधिराश्रयितव्य इत्यर्थः । शेषं स्पष्टम् । अत्रोच्यते-प्रमाणेति । प्रमाणान्तरेण यातः प्राप्तोऽर्थो यस्य वचसः तत्तोक्तम् , तद्वस्तचा ; तथा भूतः सिद्धोऽर्थो यस्य वचसः तदूतार्थम् , तद्भावस्तत्ता । प्रमाणान्तरप्राप्तार्यता प्रमाणान्तरज्ञातत्वेन ज्ञापित्वं किमनु वादता ? उत भूतार्यतामात्रम् । तत्र प्रमाणान्तरलब्धार्यता चेदनुवादता- भिनेता, ततो यदपौरुषेये वेदान्तवचः प्रमाणान्तरज्ञातत्वेन न बोधकं,
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२५
दिखावट