पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४U बHeयाख्या १. 77-24 अशोभन्त्वमाह-ज्ञेयेति । ज्ञानस्य श्रेयप्राप्तिर्धष्टं फलम् । न दृष्टफले विधिः, दृष्टस्यान्वयव्यतिरेकसिद्धत्वेन विध्यनपेक्षत्वात् । मोक्ष ज्ञानस्या इष्टं फलम् , तदथ विधिर्भविष्यतीति चेत् ; तन्न ; न हि स सध्यः ; कुतः ? तवच्युतेः, मोक्षस्वहनात् । आत्यन्तिकी हि संसारनिवृत्तिमेक्ष उच्यते; तस्य कार्यत्वे घटादिवद्विनाशात् पुनः संसारः स्यात् । अतो मोक्षस्यात्यन्तिकसंसारनिवृत्तिलक्षणं मोक्षत्वं हीयेत । ननु घटादिनाशव- कार्येऽपि मोक्षो न नङ्क्ष्यति ; नैवम् , मावस्य कार्यस्य नाशेनाविना भावात्; आवश्च मोक्षः, निरतिशयानन्दैश्वर्यलक्षणत्वात् । ननु आत्यन्तिकी संसारनिवृत्तिमक्ष इत्युच्यत इत्युक्त्वा, कथमाह भावरूपो मोक्ष इति ? उच्यते-मोक्षे सा भवतीत्युपचारात् सैव मोक्ष इत्युक्तमित्यविरोधः ; मोक्षे वा सा भुस्यादिभिरुच्यत इत्यर्थः । नन्वागामिदेहेन्द्रियबुद्धिसंयोगाभावो मोक्षः ; स च कार्येऽप्यभावत्वात् घटाभाववन्न नङ्क्ष्यति । नैवम्; प्रागभावो हि सः ; न चासौ कार्यःअनादित्वात् घटादिप्रागभाववत् । ननु बन्धहेतुध्वंसो मेक्षः; स च घटध्वंसवत् कार्योऽपि नानित्यः । सत्यम्_; किंतु असौ विद्याया न पृथक् । अतो न तत्कार्यम् । यस्मा दविद्योत्थो बन्धः, विथैव च तद्विरोधिनी तदभावः , न पृथक् ; पृथक् कार्यं भवति । अथवेति । ‘तवच्युतेः’ इत्यस्यापरा व्याख्या । आत्मनः स्वरूप- स्थितिलक्षणो मोक्षः भृत्योक्तः ; स चेत्कार्यः स्यात्, एवंलक्षणान्मोक्ष- त्वच्च्यवेत ; न हि कार्यं नित्यस्यात्मनः स्वरूपं भवतीति भावः । कार्यत्वे मोक्षस्यानित्यत्वात् पुनरावृत्तिः स्यात् । अपुनरावृत्तिश्रुतिविरुद्ध त्वात् ‘यत् कार्यं तदनित्यम्’ इत्यनुमानमप्रमाणम् ; तेन कार्यत्वेऽपि मोक्षस्य नित्यत्वात् यदुक्तं कार्यत्वे विनाशात् तस्य पुनः संसार इति तदयुक्कमित्यनुभाषते--यस्विति । तदूषयति--दृष्टेति । इष्टा सर्वकायाणाः मनित्यत्वाद्विनाशि ; मोक्षस्य कार्यत्वेऽप्यपुनरावृत्तिश्रुतिबलान्नित्यत्वमा- औयेत, यदि श्रुतेरभ्या गतिर्न स्यात् ; अस्ति तु सेत्यर्थः । तामन्य गतिमाह-यदा त्विति । अनवयवेनेति ; निःशेषत इति यावत् अविद्या पुनरावृत्तिहेतुः | तस्यां विद्यया निःशेषतो गतायां हेत्वभावादेवं