पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गमयन्ती तत्परतया भूतादिकमर्थमेकदेशेन ब्रूते; न स्वनिष्ठत्वेन । तेनो पनिषदोऽपि प्रतिपत्तिकर्तव्यतापरा एव, न सिद्धार्थपरा इति ये मन्यन्ते तान् प्रत्युच्यते—तिख इति । शब्दात वेदान्ताख्यात् यदात्मज्ञानं तत् ‘ आत्मा प्रतिपत्तव्यः' इति विधिना न विधीयते ; यस्मादधीतवेदस्य शब्दसामर्यादेव कर्मावबोधवत् तदास्मज्ञानं भवति ; अतः किं तत्र विधिनेति भावः । ननु प्रमाणान्तरी ज्ञानमुपेक्ष्य किमिति शाब्दमेव ज्ञानं न विधेयमत्रोक्तमित्याशङ्क्योक्तम् ब्रह्मणो हीति । शेषं सुगमम् । कर्मावबोधवदिति दृष्टान्तितम्; तत्र विध्यनपेक्षामाह--स्वर्गेति । 'स्वर्गकामो यजेत ” इत्यस्मिन् शब्दे वाक्यार्थबोधे नान्यो विधिरपेक्ष्यते, तद्विधिवाक्यार्थबोधेऽपि विध्यन्तरापेक्षायामेनवस्थाप्रसङ्गात् । न च योऽयं ‘यजेत’ इति विधिः स एवापेक्ष्यते, तस्य कर्मणि व्यवस्थितेः ; कर्म हि तेन विधीयते, न तु तद्वोध इत्यर्थः । अत्र चोदयति--नन्विति । यथा खर्गकामादिवाक्यानामध्ययने

  • स्वाध्यायोऽध्येतव्यः ” इति विधिरपेक्ष्यते, खाध्यायाध्ययनविध्यध्ययने

तु न विध्यन्तरमपेक्ष्यत इति नानवस्था; तथैषामर्थबोधेऽपि विध्यपेक्षास्तु तद्विध्यर्थबोधे तु न विध्यन्तरमपेक्षिष्यते ; अतो नानवस्था भवतीत्यर्थः। न च वेदार्थज्ञानप्रवृत्तौ विधिर्नास्तीत्याह-अस्ति चेति । तदूषयति विषम इति । वैषम्यमाह-—अप्रवृत्तोऽपीति । यद्यध्ययनविधिः खयः मधीतो वाक्यान्तराण्यध्यापयति, ततस्तदध्ययनमप्यध्ययनविध्यन्तराधीनमित्य नवस्था स्यात् । यतस्तु स्वयमप्रवृत्तोऽप्यध्ययनाविध्यध्ययने पुरुषः पुरुषा न्तराधीतादध्ययनविधेस्तस्यान्येषां च वाक्यानामध्ययने प्रवर्तते, तेन तत्रा- नवस्था न भवतीत्यर्थः । नन्वन्येनाधीतादध्ययनविधेरन्यस्य कथं प्रवृत्तिः । अधीतं हि वाक्यं प्रवर्तयति, नानधीतम् , अगृहीतस्य प्रवर्तकत्वायोगा दित्यत आह-शावेति । नाध्ययनं प्रवृत्तौ तन्त्रश् , अपितु ग्रहणम् ; तव श्रवणमात्रादपि भवत्येव ! यथा भयमनधीतादपि भास्वान्तरोक्तादङ्ग वाक्यात् तदभ्यायिभ्यः शृतात् तदपसंहारः प्रयोगेषु क्रियत इत्यर्थः ।