नियोगकाण्डः 187 ननु पुरुषान्तराणामपि कथमध्ययनविधिवाक्याध्ययनमित्याशङ्कयाह--ययेति । P. 16 एवं स्वर्गकामादिवाक्याध्ययने नानवस्थादोष इत्युकम् । तदर्थबोधे तु वेदः कृत्स्नोऽधिगन्तव्यः” इति विध्यन्तरापेक्षा संभवति । यतस्तदप्य नवबुडार्थं न वर्गकामादिवाक्यार्थज्ञाने प्रवर्तयितुमलम् , अतस्तदथsऽपि विध्यपेक्षः । न च स एव खार्यबोधे प्रवर्तयति, अनवबुद्धार्थस्य प्रवर्त- कत्वायोगात्; तदर्थबोध प्रवृत्तिः, प्रवृत्तस्य च तदर्थबोध इति इतरेतरा श्रयं हि स्यात् । अतश्च " वेदः कृत्स्नोऽधिगन्तव्यः” इत्यस्यार्थबोधे विध्यन्तरमपेक्ष्यम् , तत्राप्येवमित्यनवस्था स्यादिति मुक्तम्—‘विषम उप न्यासःइति । यच्चोक्तम् अस्ति विधिः' इति, तदप्ययुक्तम् यतऽ पूर्वार्थप्रापक वीिध र्भवति ; अयं त्वध्ययनविधेर्टष्टार्थरत्वेन न्यायशास्रान् वादक इत्याह--न चेति । अभ्युपगम्यास्य विधित्वं वेदार्थबोधे ‘ आत्मा प्रतिपत्तव्यः' इति पृथग्विध्यनपेक्षामाह--अथेति । ननु स्वाध्यायाध्ययनविध्याक्षिप्तं चेत् वेदार्थज्ञानं ‘वेद कृत्स्नऽधि गन्तव्यः” इत्यनेनोच्यते, ततोऽध्ययनविधिप्राप्तानुवाद एवायं स्यात् ; कथं विध्युपगमः? उच्यते—विध्याक्षिप्तमपि विधीयते ; यागविध्याक्षिप्त मिव त्रीषादि । विलम्बी ह्यर्थाक्षेपः, शीघ्रक्षाविनी श्रुतिः सा अर्थाक्षेप- व्यापारत् प्रागप्राप्तमेव विधत्ते । फलं त्वन्यनिवृत्तिः; अर्थाक्षेपे ऽन्य- दप्याक्षिप्येतेति न दोषः कृमविधिवाक्यवदेत्युकम् तद्विवृण्वन् तत्र पुनः श्लोकं योजयति--यथेति । विघौ सत्यपि चेद्विध्यन्तरमपेक्ष्यते ततस्तत्राप्येवमित्यनवस्थानात् स्वर्गकामादिवाक्येषु : बंद: कृत्स्नोऽधि गन्तव्यः ” इति सामान्यविधिनार्थबोधे प्रवक्षसिद्धस्तदर्थं यथा नान्यो विघिरपेक्ष्यते---न च स्वर्गकामादिवाक्यगतःतस्य कर्मविषयत्वात्-—एवं वेदान्तेष्वपि वाक्यसामथ्यदेव तदर्थबोधोत्पत्तेः ‘आमा प्रतिपत्तव्यः ' इति विधिर्नापेक्षितव्य इत्यर्थः । ननु कर्मविधिंवदत्रापि सामान्यविधिसिद्धत्वमेव वाच्यम् ; तकिमिदमुक्तम्--'वाक्यसामथ्र्यात्’ इति ? उच्यते--वेदान्तेषु आमा प्रतिपत्तव्यः ' इति विशेषविधिवादी सामान्यविधेस्तदन्यविषयतेति मन्यते ; अतस्तदभिप्रायेण सामान्यविघिसिङर्थता नास्तीति वाक्यसम यत् ’ इत्युक्तम् । सामान्यविधिशेषत्वेऽपि चोपनिषदां सिद्धार्थता न स्यादिति तच्छेषत्वमप्यनिच्छतेदमुक्तमित्यदोषः । c
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२१
दिखावट