पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

172 बदतिद्धिव्याख्या तयोः समुचितेन भेदलक्षणेन विरहादंशवत् द्वयास्मता न स्यादित्युक्तं इयात्मता कथम्' इत्यत्र । अथ मतम्---बुढिरूपाभेदः परस्परात्मप्रतिपत्तिश्च वै प्रत्येकमभेदलक्षणे ; तदुभयशवश्च समुचितो भेदलक्षणमिति । ततः सामान्यांशस्य विशेषांक शस्य च बुद्धिरूपभेदादभेदलक्षणात् प्रत्येकमेकत्वम् । उभयोस्तु सामान्य विशेषय परस्परात्मत्वप्रतिपत्तेरभेदलक्षणादन्योन्यमेकत्वम् । विशेषाणां पुनरभेदलक्षणद्वयाभावात् , भेद एव । ततश्च सामान्यविशेषयाः स्वरूप द्विवेऽपि पूर्वोक्ताभेदलक्षणादेकत्वमपीति सिद्धं द्वयात्मकमेकं वस्विति । तदयुक्तम् ; यस्मादेवमप परस्परात्मत्वप्रतिपत्तावभेदलक्षणे सति अत एव चोभयाभावरूपे भेदलक्षणे चाबिद्यमानेसामान्यविशेषयोद्वर्यात्मता न स्यात् । किंच नैकस्याग्दस्य बुद्धिरूपाभेदपरस्परास्मत्वप्रतीतिसंज्ञके डे लक्षणे युक्ते । कुतः ? यस्माद्युक्षणाभेदः सर्वत्र लक्ष्येष्वभेदं व्यवस्थापयति ; यथा- अनुमानलक्षणाभेदः सर्वानुमानानामनुमानत्वाभेदम् ; लक्षणभेदश्च तत्रेदं व्यवस्थापयति - यथानुमानार्थापयोः । तत्र लक्षणभेदादभेदस्य लक्ष्यस्य नानात्वं युक्तम् : तथा सत्यप्यभेदस्य लक्ष्यस्य यदि तवमाक्ष- न्नस्वम् , तदा लक्षणभेदाभेदयोरतन्त्रत्वात् तदभेदे नानात्वमपि स्यात्; ततो लक्षणं व्यर्थमेव स्यात् । इतिः समाप्तौ । इतश्च सामान्यविशेषयोरेकस्वमयुक्तमित्याह-अषि चेति । यदि तयोरभेदः स्यात् , तत एकवुद्धचैवेतरस्य गृहीतवतत् तयोरन्यतरस्मिन् गृहीते परग्राहिणो बुद्धघन्तरस्य विलक्षणविषयस्य व्यर्थत्वमापतेत् ; वथा सामान्यांशे विशेषांशे वा स्वबुद्धचा गृहीते तद्रहणय बुद्धचन्त रस्य ? अथ मिन्नभिन्नवान्नानावमपि तयोरस्तीति मैकग्रहणेऽपरस्य प्रहणमिति बुद्धघन्तरस्यार्थवत्तोच्यते, तत एकत्वमस्तीति व्यर्थता किं न स्यादित्यर्थः । भेदष्विति ; विशेषेष्वित्यर्थः । यथा सामान्यविशेषभागय रिति ; यथा सामान्यांशे विशेषांशे व खबुद्धया गृहीते न तद्वहणाय विलक्षणं बुद्धयन्तरमथैते तथा सामान्ये गृहीते विशेषग्रहणाय न बुद्धच न्तरमथ्येत, तयोरभेदात् । एवं विशेषेऽपि गृहीते न सामान्य इत्यर्थः । इदानीममेदादेकया बुद्ध चोभयोर्मुहर्णमेव युक्तम् , न नानात्वावग्रहण