पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 171 कुर्वतानेन सामान्यविशेषयोः प्रत्येकं भेदाभेदयोर्लक्षणं तावदवश्यं वाच्यम्। प्रत्येकं च तयो रूपविरोधाविरोधावन्योन्याभावतद्विपर्ययरूपौ मेदाभेद लक्षणे ; यतो रूपविरोधादन्योन्याभवरूपाद्विशेषणामन्योन्यभेदः , तद्विपर्य- याच तेषु भिन्नेषु सामान्यमभिन्नम् । तत्रैतादृशि भेदाभेदलक्षणे यदि सामान्यविशेषयोरपि विरोधोऽन्योन्याभावरूपःतते विशेषाणामिव नान्योन्यमेकत्वम् । अथ सामान्यविशेषयुद्ययोः सामानाधिकरण्येनोत्पत्तिः, अतो न तौ विरुद्धखभावावित्यविरोधेन तयोरेकत्वमुच्यते ; तत रूप- विरोघस्य मेदलक्षणस्याभावादसति भेदे भेदाधिष्ठानद्वित्वभावाद्यथा सामान्य मागो विशेषभागशानिर्भक्तः प्रत्येकमवान्तरविभागरहितो न द्विरूपःतथा सामान्यविशेषयोरपि रूपविरोधाभावादसति भेदे भेदाधिष्ठानद्वित्वाभावात् नैकं इयात्मकम् । सामानाधिकरण्यबुद्धेरिति रूपविरोधाभावे हेतुः । यदीत्यादिना चायमेवार्थः संक्षिप्य स्पष्टीकृत इति । अथ मतम्-यदि रूपविरोधादन्योन्याभावलक्षणान्नानात्वं ताद्विपर्यया चैकत्वं स्यात् , ततः सामान्यविशेषयो रूपविरोधाभावादन्यतरांशवत् द्वित्वं न स्यात्; न चैवम्; किंतु यत्र द्विरूपा बुद्धिस्तत्र नानात्वम्, यत्र चैकरूपा तत्रैकत्वम् । अतश्च सामान्यवियोः ‘गौरयम्' इति सामा- नाधिकरण्येन प्रतीतेरसत्यप्यन्योन्याभावलक्षणविरोधेऽद्विरूपबुद्धिवेद्यत्वादेकत्व ; अतो वस्तुनो हिरूपबुद्धिवेद्यत्वात् इयात्मतेति ; तत्रोच्यते--ऐकात्म्यते । ऐकाम्यबुद्धिरेकरूपा बुद्धिः ; ततः सामान्यभागे विशेषभागे चेदेकत्वम्, एवं तर्डसावेकरूपा बुद्धिर्वस्तुनि द्विरूपे नास्ति चेत् ततः कुत एकस्वम्_ अथास्ति, तत एकरूपबुद्धिबोध्यत्वावंशवदेद्भवं स्यात् ; इयात्मता कथ मित्यर्थः । वृत्तिर्यक्ताथ् । अथ मतम्-लुडिपभेदः परस्परानात्मत्वं च इयमपि भेदलक्षणम् । तत्र गवाश्वादीनां इयमप्यस्तीति निरुत्वमेव । सामान्यविशेषयोस्तु सत्यपि बुद्धिरूपभेदे सामानाधिकरण्यबुद्ध्या परस्परात्मत्वेन प्रतीतेः परस्परानास्मत्वं नास्तीति न भेदः । अतो नैकत्वविषात इति ; तदपि न ; यतो यदि सामान्यविशेषयोः परस्परात्मत्वेन प्रतीतेः परस्परानास्मता नास्ति, एवमाप