तर्ककाण्डः 157 वर्तेरेकस्वादिति भावः । नन्वेकस्मादपि वदेः कार्यभेदः शक्तिभेदनिबन्धनः; न चाभेदवादिनां शक्तिभेदोऽस्ति । नैवम् ; अस्माकमपि मायात्मक- शक्तिभेदस्येष्ठत्वादित्यदोषः । अय सत्यपि वह्नौ मन्दाद्युपहतायां शक्तौ कायदर्शनाच्छक्तीनामेव कारकत्वमभिप्रेतम् ; ताश्च भिन्नः; तेन कारण- भेदादेव तत्र कार्य भेद इत्याशङ्कयति -अथेति । अत्रोच्यते-यथेति । रूपमितिः अत्र अभिन्नम्’ इत्यनुवर्तते । लोकार्थं विवृणोति--एकस्यते । एकस्य वरनेकदाहादिकार्यसंबन्धविरोधात् शक्तिमेदः कल्प्यत इत्यर्थः । शेषं सुगमम् । किंच एकस्माद्दैरनेकाः शक्तयश्चेदव्यतिरिक्ताः, ततो वहि रेकोऽनेकत्रैष्टव्यः । तत्र वर्तेरेकत्वं नद्तेनैवानेकत्वेन चेन्न विरुध्यते, नतरां कार्यगतेन । अतश्चैकस्मादपि क़ायनेकत्वसंभवात् न कार्यानेकत्वेन कारणमेदसिद्धिरित्यभिप्रायेण सोपहासमाह-अषि चेति । अथैकस्माद्व व्यतिरिक्तः शक्तयः, कथं तस्य तदाश्रयत्वमिति वाच्यम् । तेन सह तासां संतोषस्तदाश्रयत्वमिति चेत् , स ॐि तादात्म्यलक्षणः? उत नैरन्तर्यम् ? न तावत्तादात्म्यलक्षणःमिस्रानां तदयोगात् । तादात्म्ये हि तयोरेकत्वमेव स्यात्, न भेदः । नैरन्तर्यं च संश्लेष आश्रयत्वे, दाह शक्तिकवह्निसंनिछष्टस्य काष्ठस्यापि तनैरन्तर्यमस्तीति तदाश्रयत्वप्रसङ्गः । न हि यहूव्यस्य संनिकृष्टं तत्तच्छक्तेरसंनिकृष्टं भवति ; न हि चक्षुर्देव्यस्य संनिकृष्टं तद्रुपस्यासंनिकृष्टं मवति; अन्यथ रूपोपलब्धिरेव न स्यात् । एवं च विभूनां सर्वेः शक्तिमद्रियैः सैनिकृषीत् सर्वशक्तित्वप्रसङ्गः । तस्मात् शक्तीनां कंचिदुपायं कुर्वतो बहेरेरनेकशक्त्याश्रयत्वं वाच्यम् । स च शक्तीनां भेदात् प्रतिशक्ति मिन्नः । तदेवमेकस्माद्यथानेकोपकार- सिद्धि, तथानेककार्यसिद्धिरपि स्यादिति न कार्यजेदात् कारणभेदसिद्धि रिति । तदेतत्सर्वमाह--अथेति । इदानीं प्रकरणार्थं संकलय्योक्त्वा मतान्तरमवतारयति दूषयितुम् एवमिति । यवेव कार्यभेदादिविपक्षव्यावृत्तिमुखेन बडानमनुमानमुक्तं तदेवान्येषामन्यथापपद्यमानमर्थापत्तिरिति मत्वोक्तम्-- अर्थापया वेति । अन्योन्याभावो हि भेदः; न च सक्षगोचरः । भावमात्रग्रहणयोग्यत्व दिन्द्रियाणाम् । न च लिङ्गगम्यः, प्रमाणान्तरागोचरे संबन्धिन्यभावे
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९१
दिखावट