व्यवहाराश्रयत्वमुचितमिति । नन्वनन्तं सर्वत्र वर्तते । तत्कथं सूर्यमण्डले खुस्थाने वेत्युक्तमिरयाशङ्कयाह--तत्र हीति । तद्विवृणोति-तीति । उपलब्धिः उपातनाज्ञानमभिप्रेतम् । एकस्यैव’ इत्यादिश्लोकमन्यथा व्याचष्टे-अपर इति । कल्पः अर्थः । घटनाकार्यभेदात् पूर्वोक्तया वा व्यवस्थया कल्पितेऽपि त्वया कारणयोस्तिलपयसोमेंदे, वां पृच्छामः -तिलकार्यात् तैलात् कार्यान्तरं दंषि किमिति पयसो भवति ? द्वाभ्यां संभूयैकमेव कार्यं किमिति न क्रियते? अथापि तिलपयसी पृथक् कार्यं कुरूतः, तथाप्येकजातीयं किं न कुरुतः? तदा च कार्यान्तरशब्दो भिन्नजातीये द्रष्टव्यः । किमिति चोभयमुभाभ्यां न क्रियते ? सोऽयं संकरः । पयसस्तलं तिलेभ्यो दधीति विपरीतो वा व्यवस्था कि न स्यात् ? पयसः सकाशात् तिलसिकतयो भेदाविशेषेऽपि किमिति वा तिलेभ्यस्तैलम् , न सिकताभ्यः इति । किंच दृष्टत्वादपि भिन्नानामेककार्यत्वमेकजातीयकार्यत्वं वा युक्तम् ; दृष्टं हि चक्षुरादीनामेककार्यत्वम् , एकजातीयशरादिकार्यत्वं च श्रशृङ्गादीनाम् । तिलपयसोभेदेऽपि किमिति तिलेभ्यस्तैलम् , पयसो दधि, न तु विपर्ययः । इति विपरीतव्यवस्थाविवरणमात्रम् । अथ मतम्—अचिन्त्येभ्यो भव= सामथ्र्येभ्यः कार्यभेदः कार्यव्यवस्था ; सत्यां च तस्यां न विपर्ययः सेत्स्यतीति ; ततो वरमेकस्यैव सोऽस्तु सामथ्र्यातिशयःयदेकस्मादप्यनेकं व्यवस्थितमविपरीतं च कार्यं भवतीति; एककारणमात्रेण एकस्य वा सामथ्र्यातिशयमात्रेण कार्यभेदादितिखेरप्रमाणिका भावानां गुर्वी भेद कल्पनेत्यर्थः । अचिन्त्येभ्य इत्यस्य विवरणम्--अचिन्त्यानीति । 'कस्माद्भवन्ति, कथं भवन्ति ’ इत्येवमुपपत्तितश्चिन्तयिंतु न शक्यन्ते, किं तु कार्यदर्शनैस्तसामर्थानां व्यवस्थोनीयते । कार्यं तु तिलपयसोभिनं व्यवस्थितमविपरीतं च दृश्यते । अतस्तयैव तानि व्यवस्थितानीति भावः । एतच्चाविद्यामिकां शक्तिमभिप्रेत्योक्तम् । न तरवतो भिन्ना अभिन्न भिन्न- भिन्ना वा शक्तिरस्ति । एकस्मादप्यनेकं कार्यं इष्टम् ; यथा--वधेर्दाहपावित्युक्तम् ; तत्र चोदयति-स्यादिति । तत्परिहरति--तत्रेति । शक्तीनां भेदेऽपि
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९०
दिखावट