सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 155 अत्रोत्तरमाहअत --इति । ‘अतः' इतीदमा संनिहितमुच्यते तत्र P. -. । 555 प्रत्यक्षतः, शब्दतो बा । तत्र प्रत्यक्षमाश्रित्य 'अतः प्रत्यक्षामिमतात् ' इत्युक्तम् । शब्दमाश्रिस्य च ‘पुरुष एवेदमिति सर्वशब्दनिर्दिष्टात्, उतामृतत्वस्येत्यनेन वा निर्दिष्टात्’ इत्युक्तमिति विवेक्तव्यम् । कथमनेन देवादिप्रपथस्य निर्देशः? उच्यते-- मर्यस्य देवादेरमृतत्वस्येशान इत्यर्थात् देवादिप्रपक्षस्य निर्देशः । प्रतीकनिर्देशो वायम्—“यदन्नेनातिरोहनि ” इत्यनेन देवादिप्रपञ्चस्य निर्देशः ; यदि यस्यादनीयं तत्तस्यान्नम् ; देवानां चामृताद्यन्नमिति । , ततश्च यदन्नेनातिरोहति प्रादुर्भवति च तस्य चेशान इति देवादिप्रपधनिर्देशः । भेदेनेति ; इत्यंभूतलक्षणे तृतीया इत्यंभूतादित्यर्थः । सर्वे चेदं प्रपथादित्यस्य विशेषणम् । ड्डतर इति ; सर्वथातिशयितोऽनन्त इति यावत् । अनेन ज्यायानिति वुडस्य च ” इत्यनेन ज्यादेश इति दर्शयति । तदेवमनन्तेऽस्मिन्नेकस्मिन्नपि पुरुषे परिडिानां विरुद्धानामपि नित्यानित्यत्वादीनां समावेशो न न युज्यते । अतोऽनन्ततो भावभेदावगतिरित्यमिश्रायेणाह-तेनेति । एतदेवानन्तत्वं श्रुतिः प्रकांरान्तरेण दर्शयतीत्याह--तदेवेति । तां व्याचष्टे--कृत्त- ऽपीति । विश्व इति ; शेश्छन्दसि बहुलम्” इति चेन्नपः । पादः बतुर्थो मागः ; कनीयान् अप इत्यर्थः । माग इवेति ; निर्भागस्य तत्वतो भागाभावादवच्छिन्नप्रषधोपाधिकल्पितः स इति दर्शयितुमिवशब्दः । कथं प्रपद्यवच्छिन्नस्य भागस्याल्पत्वं पुरुषस्य च ज्यायवामित्यपेक्षाया- मुत्तरमृक्पादं योजयति-तथा हीति । पादा भागाः ; त्रयः पादा अस्येति विग्रहः ; रूपमन्यपदार्थः । त्रित्वेन च पादानामेकस्मात् पादद्वैपुल्यतो ऽनन्तत्वमभिप्रेतम् । अथवा अमृतत्वमविनाशित्वम्; तच्चजत्वादिधर्मोप- लक्षणार्थम् । अजस्यैव हि तत् , न जन्मवतः । तदयमर्थः---अपरि मितम् , अत एवानन्तम् , मरणादयो भूतधर्माः यस्य प्रपञ्चस्य तेन शून्यम् , अस्य पुरुषस्य रूपं दिवि प्रद्योतावस्थायां विशुद्धचैतन्याव स्थायां प्रमोदावस्थायां नित्यनिरतिशयानन्दावस्थायां सूर्यमण्डले वा स्वर्ग स्थाने वा वर्तत इति । एनदुक्तं भवति-प्रपञ्चस्यावच्छिन्नत्वात् सप्रपथं ब्रह्मरूपमरुपम् , अप्रपशं स्वपरिमितम् ; अतोऽस्य विरुद्धाविरुडधर्मकार्य. b