पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158 बझसिद्धिव्याख्या लिङ्गिनि, तेन सह कस्यचिच्छिद्भस्याढष्टसंगतित्वात् । अर्थापत्तिरपि पयसो दम्भो जन्म नान्यत इति व्यवस्थाहेतुक ; सा चेतरेतराश्रयत्वदोषग्रस्तत्वा- न्नान्योन्याभावरूपे मैदे प्रमाणम् । तस्मात् भापलम्भहेतुभ्यश्चक्षुरादिभ्यः प्रमाणान्तरं प्रमाणानुत्पादलक्षणं, विधायकाद्वा भावज्ञानात् प्रमाणान्तरं व्यवच्छेदकत्वेम ‘ नास्ति ’ इति ज्ञानमन्योन्याभावायाश्रयितव्यम्; तद बीना हि मावानामन्योन्यमसंकर्णितेति ये मन्यन्ते तान् प्रत्युच्यते अन्योन्येति । प्रमन्तरेति; प्रमशब्दः करणसाधनों भावसाधनो वा ; तथाच दर्शितम्- सदुपलम्भहेतुभ्यः’ इत्यादिना; विषयप्रतिषेध्ययोर्मेदा- द्विना ‘अस्मिन् भूतले नेदं घटादि’ ‘नायं घटः पटः' इति चोमयविघा निषेधधीर्न भवतीत्यर्थः । नन्वन्योन्याभावो मेद इति परेणोक्तम्; स च तादात्म्याभावां नाधाराधेयभावःतत्र ‘नायमयम्' इतिमात्रं वाच्यम्, न ‘नास्मिन्निदम्’ इति । सत्यम्; न व्यर्थम् ; दृष्टान्तार्थं हि तत् । छोकं व्याचष्टे--नेति । वलुशब्दः प्रसिद्धिद्योतनार्थः । कुत इत्याह नानपेक्षितेति । न हि यत्र यं निषिध्यते तावनपेक्ष्य नेदमिह । नायमयम्’ इति निषधो भवति ; भवन् वा ‘न’ इत्येतावन्मात्रं स्यात्; ततश्चागृयमाणविशेषत्वात् सर्वयतामापादयति; न भावविशेषयोरन्योन्या- भावरूपं मेदमिति “ अपि चानपेक्षितविषयनिषेध्यव्यवच्छेदे शून्यता प्रमाणार्यः’ इत्यत्रोक्तम् । एतच्च परेषामपि संमतमिति गृहीत्वा इत्यादिना दर्शितम् । तदेवं विषयनिषेध्यप्रतीतौ सिडायां यदि सा तयोरनवगत भेदयोर्वस्तुमात्रत्वेन स्यात्, तदा ‘इदं निषेध्यम् ,,विषयस्त्वयम्’ इति विभागभावान्निषेध एव न स्यात् । वस्तुमात्रं दीनवगतभेदं यदि विषयः निषेध्यं न स्यात् । अथ निषेध्यः, ततो विषयो न स्यात् । विषयाभावे च 'घटो नास्ति’ इति घटस्यात्यन्तिको निषेधः स्यात् , नान्यत्र सिद्धस्य देशविशेषे; न क्वचित्सिद्धस्यात्यन्तिको निषेधो युज्यते ; न चात्यन्तम- सिद्धस्य, अप्रसक्तेः ; एतच्च 'अन्यथा दैवनिषिद्ध कः प्रतिषेधोऽप्राप्त रूपे?' इत्यादिनोक्तम् । व्यवच्छेदावाधिः व्यवच्छिद्यते अस्मिनिति विषयोऽ मिश्रेतः । अथ न वस्तुमात्रस्य विषयनिषेध्यवेकिंतु वस्तुविशेषयोरेव ययोः कयोश्चिदित्युच्यते, ततः सर्वस्य सर्वत्र निषेधः स्यात् , विशेषा