पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14B प्रतियोग्यायत्तेत्यर्थः ! एवमाशङ्कय दूषयति--नेति । एवं चेत्तर्हि । भेदाख्यो भावस्वभावो न प्रतियोग्यपेक्षः; किंनु तस्मिन् भेदे पूर्वमवस्थिते भेदाख्यस्य वस्तुनः स्थितेरुत्तरकाला ततनतीतिः प्रतियोगिसपेक्षेत्यापन्नम् । अतो भेद एव प्रतियोगिसापेक्ष इति प्रतिज्ञातं हीयत इति भावः । न च प्रतीती सापेक्षायां तत्प्रमेयं वस्तु सापेकं स्यादित्यत्र दृष्टान्तमाह " यथते । व्यवस्थिताश्च ते स्वहेतुभ्यो लब्धमानःअत एवानपेक्षस्वभावाश्चेति वग्रहः व्यवस्थतां अनपेक्षः स्व आवो येषामिति व नन्वस्तु भेद प्रतीतिरेव सापेक्षा, तदर्थमेव स्वतो निरपेक्षोऽपि भेदः प्रतियोगिनमपे- क्षिप्यत इत्याशङ्कयाह--इतरेतरोत । यतो भेदेन प्रतीतद्यस्य भेदः प्रत्येतव्यःतस्यापि ततस्तथेतीतरेतराश्रयः । अत मेदस्य प्रतीतिरापि परस्परायत्त इतरेतरसापेक्षा न घटत इत्यर्थः । ननु वस्तुमात्रादगृहीत- भेदद्वंदः प्रत्येष्यते ; अत्ते नेतरेतराश्रय इत्याशङ्कयाह - न चेति । हेतुमाह-एकस्मिन्नितिं । यद्येवं स्यात् स्वतोऽपि स्वस्य भेदः प्रतीयेत ; न चैवमस्तीति भावः । प्रकृतमुपसंहरति--तस्मादिति । अस्यैवान्या व्याख्या ; तामाह—नेति । हेतुमाह--आपेक्षिक इति ; प्रतियोग्यपेक्षया यतः स भेदः प्रतीयत इत्यर्थः किंमत्याह स चेति । अपेक्षा हि पुरुषस्य प्रत्ययविशेषः; न च तं वस्त्वनुवर्तते ; न च पुरुषमत्ययमनु वस्तुव्यवस्थेत्यर्थः । हंतुमाह-व्यवथनति । यया वस्तु हि पुरुषप्रत्ययो “ युक्तः ; अन्यथा निरालम्बनः स्यादिति भादः । इतिः छेकथेपरिसमाप्त । ननु यद्यपेक्षिकं न वस्तुनो रूपम् , कथं तर्हि पितृवादयो वस्तुनो रूपम् ? तेऽपि ह्यापेक्षिका एव ; न हि ते पुत्राद्यपेक्षया विंना भवन्ती त्यतस्ते यथापेक्षिका अपि क्रतुनो रूपं । तथा भेदोऽपीत्यमित्रायेण पृच्छति--कथमिति । न च वपुष्पवदसन्तः; न च गन्धर्वनगरादिवद सत्या इत्याह --न चेति । असतां व्यवहार एव नाति ; असत्येन तु विसंवादी; पितृवादयस्तु व्यवहारस्य हेतुत्वेन लोके सिद्ध , चविं स संवादीति नासन्तो नाप्यसत्या इत्यर्थ। अत्रोत्तरमाह-उच्यत इति - .