पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 भसडेव्याख्या यदि पितृत्वादयोऽप्यापेक्षिकाः, तेऽपि तर्हि भेदवद्वस्तुनो रूपं मा भूवन् । असत्या एव सन्तु ; का नो हानिः? न च तेषामविसंवादिव्यवहारहेतु त्वेन सिद्धत्वाद्वेदाद्विशेषः भेदोऽप्येवमविसंवादिव्यवहारहेतुत्वेन पितु त्वादिवद्वस्तुवह किं न लोके सिद्धः ? अपि तु सिद्ध एव ; अतो नाय- मपि विशेष इत्यर्थः । ९ P. 60-6. एवं पितृत्वादिभेदयोरविशेषमुक्त्वा संप्रति विशेषमाह--अपि चेति । पित्रादौ विषये पुत्राद्यपेक्षा जननादिना भवति । ह्रस्वदीर्घयोरप्यन्यो- न्यापेक्षा, एकस्या देशव्याप्तिक्रियाया न्यूनाधिकभावविशेषेण भवति । न च भेदे तादृशोऽपेक्षहेतुः कश्चिदस्तीति भावः । एतव्याचष्टे- व्यवस्थिते इति । व्यवस्थिते औत्पत्ति के अन्योन्यनैरपेक्ष्येण स्थिते, न तु वस्तु स्थित्युत्तरकालमन्यापेक्षाप्रभवे पितृपुत्रयोर्जन्यजनकशक्ती पितृपुत्रयोरभिधेये । यथासंख्यमत्राविवक्षितम् । एतच्च शक्तिः कारकमित्यभिप्रेत्योक्तम् । शक्ति मत्कारकमिति पक्षेऽपि सर्वमूलम् । कथं तर्हि तयोरन्योन्यापेक्षित्वमित्या शङ्कयाह-ते त्विति । जन्यजनकयोः कर्तकर्मकारकशक्ती समनश्चासौ जननाख्यो व्यापारस्तद्विषये सति ता पितृपुत्रशब्दौ आस्कन्दतः विषयी कुरुतः । ते वा शक्ती कर्तृभूते तौ शब्दौ कर्म भूतौ आस्कन्दतः खवाचकत्वेन स्वीकुरुत इत्यर्थः । एतदुक्तं भवति- यदेकस्यां जनन क्रियायामेकः पुरुषः कर्ता, अपरः कर्म, तदा तौ पितृपुत्रशब्दवाच्यौ भवतः; नान्यथेति । कुतः? स्वभावभेदात्; ईदृश एव तयोः शब्दयोः स्वभावविशेषो येनेदृश एव विषये वर्तते, नेतरत्रेत्यर्थः । ततः कि मित्याह-- अत इति । समानत्वं हि क्रियाया द्वयोर्भवति ; अतो यस्य क्रिया येन समाना तस्य तत्रापेक्षा भवतीत्यर्थः । उक्तमर्थं प्रकृतोपयोगि तया स्पष्टयति--एतदिति । पितृपुत्रशब्दयोरर्थस्तत्र पित्रादौ सापेक्षःन तु जन्यजनकशक्त्याख्यं वस्तु; तत्तु पूर्वं व्यवस्थितमेवेत्युक्तम् । एतदुक्तं भवति--यदा जन्येन समानजनिक्रिये जनको भवति, तद पितृशब्दार्थों भवति ; नान्यदा । अतश्च येन सा क्रिया समाना तजन्यमपक्ष्य जनकः पितृशब्दाथों जात इति शब्दार्थः सापेक्ष इत्युच्यते । अतः शब्दमात्रं