सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्ककाण्डः 141 अथवेति । मेदिप्रतियोगिनोरंकचेन्नेतदव्यतिरेकी नत एकस्मात् भेदाद व्यतिरेकात् भेदवत्तयोरप्येकवान् भेदभावप्रसङ्ग इति ‘न भेदो वस्तुनो रूपम्’ इत्यत्र यदुक्तम् , तत्राहुः परे--स्यादेवं यवेको भेदोऽनेकाश्रयः स्यात्; स तु नैकःरूपविरोधात् भेदो हि प्रतिवस्तु वैविक्यमापादयन्, प्रति वस्तु विविक्तस्वरूप एवोचितः ; कुतस्तस्यैकस्वम्? यदि चैकः स्यात् तत एकघर्मयोगात् तन्निमित्तमेकत्वं वस्तूनां स्यात्, न नानात्वम् । अथवा मेदैकत्वे तदव्यतिरेकात् तद्वदेव वस्तूनामेकत्वं स्यात् । तस्मात् प्रतिभावं भेदो भिद्यते i घटस्य पटात् पठस्य च घठादन्योन्यं भेद इत्यर्थः । अत्र सिद्धान्ती पृच्छति--कथमिति । यद्येकैकाश्रयोऽन्योऽन्यो भेदः कथं तर्हि भेदस्यानेकाश्रयत्वं प्रसिई सेत्स्यतीत्यर्थः । तत्र पर आहुः— अपेक्षात इति । एकत्र वर्तमानेऽपि द्वितीयमपेक्षत इत्यनेकाश्रयत्वं मेदस्य, न तु नैकत्र वर्तमानत्वादित्यर्थः । एकत्रैव चेद्वर्तते भेदः, कथ मन्यमपेक्षते ? न हि । घटस्थं शौक्यं पठपपेक्षत इत्याशङ्कयाह -तथा हीति । भेदो हि कस्यचित् कुतश्चिद्भवति । अतश्च यता भवति तं प्रतियोगिनमपेक्ष्य तस्य स्वरूपं व्यवस्थितम् । तेनैकस्थस्यापि युक्तान्या पेक्षेत्यर्थः । ततः किमित्याह-तथा चेति । तथा च सति यथायथं स्वीयस्वीयभेदेन प्रतिभावं भिन्नेन प्रतियोग्यपेक्षेणात्मभूतेन भावाव्यतिरेकिणा मित्राः सर्वे भावाः ; तेन प्रतिमावं भेदान्यत्वात् न तदेकत्वेन भेदव्यति रेकात भेदवद्वेदिनां मेदाभावदोषप्रसङ्ग इति तात्पर्यार्थः । अत्र दूषण मुच्यते—पौरुषेयीमिति । तद्याचष्टे--पुरुषो हीति । पुरुषो दृकमर्थं । मृत्पिण्डं गृहीत्वा परं चक्राद्यपेक्षते, तावता घटादिकार्यसिद्धः । भवास्तु स्वहेतुभ्यः केनचिदुपेण हीनाभ्दामानं लभेरन् , ततस्तद्पलाभायान्यद पेक्षेरन् ; तेषां तु खहेतुभ्यः प्राप्तसंपूर्णरूपाणां किमर्थान्यापेक्षेत्यर्थः । अपर - आहुः-नन्विति । खभाव एष भेदस्य, यदेकस्थोऽपि द्वितीयं प्रतियोगिनमपेक्षते ; किं कुर्म इत्यर्थः । ननु शौक़यादीनामयं स्वभावों न दृष्ट इत्याशङ्कचाह –.नानेति । तवे ; खरूप इत्यर्थः । साध्यकोटि- निक्षिप्त मेदः प्रतियोग्यपेक्षितया' सर्वेजनसिद्ध इति तमेवोदाहरति ययेति । अत्र सिद्धान्तवाह-न तंर्हति । यदि मेदाख्यो भाव-