पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 ब्रह्मसिद्धिव्याख्या .13-16. पूर्वोक्तमनुज्ञाप्य तत्र किंचिदाशङ्कयति--यदुक्तमिति । मेदात्मत्वे भेदवमावत्वे वस्तुनां भेदनैकत्वस्य विरोधात् एकवस्त्वभावःतदभावाचे कैकसमुच्चयरूपस्येतरस्यनेकात्मकस्यापि वस्तुनोऽभाव इति हेतोरेकत्वानेक त्वयोरेनुपपत्तेः तृतीयप्रकाराभावाच्च वस्वभाव इति यदुक्तं तत्र पर आहुः रित्यर्थः । यदाहुस्तदाह--परापेक्षमिति । घटवस्तु परतः पटात् भिन्नम् न तु स्वतः; स्वये त्वेकमेव; अतो मेदेन वस्वेकत्वस्याविरोधानैकवस्त्व मावदोष इत्यर्थः । । अत्रोत्तरमाह-तत्रेति । पुरुषस्येयं पैौरुषेयीः तामपेक्ष वस्तु यस्मा ननुवर्तते, नापेक्षानुरूपं वस्त्वित्यर्थः; तस्मात् वस्तुनो भेदखभावदोषः पूवोंक्तयुक्त्या । तदवस्थ एवेत्यर्थः । यद्यपेक्षा वस्तुधर्मः स्यात् ततस्त इशेन त्रस्तु भिन्नं व्यवस्थाप्येत न त्वेतदस्तीत्याह—नापेक्षेति । कुत इत्याह--न वस्त्विति । खलुशब्दः प्रसिद्विद्योतनार्थः ; वहेतुभ्य एव यस्वभाव वस्तु तस्वभावमुत्पद्यते ; अन्यथा तद्वस्त्वेव न स्यात् ; अतो न स्वभावव्यवस्थिनये तस्य वस्त्वन्तरापेक्षा युज्यत इति प्रसिद्धमेत दित्यर्थः । स्वहेतुभिः प्रापित उदयो जन्म येषां तानि तथोक्तानि । तत्रार्थीपुरुषस्य यः प्रत्ययः, तस्य धर्मोऽयमपेक्षा नाम ; पुरुषो हि भिन्न प्रतियन् प्रतियोगिनमपेक्ष्य प्रत्येति ; तदाह-तत्रेति । ततः किमित्याह न चेति । कुत इत्याह--वहेतुभ्य इति ; खहेत्वधीना वस्तुभावव्यव स्थितिर्यत इत्यर्थः । तु यथा पुरुषप्रत्ययानुविधांयित्वं वस्तूनां यथा वस्तुनि पुरुषः प्रत्येति तथा तथा स्युः ; अतः श्री रजततया पुरुषेण प्रतीता रजतमपि स्यात्; अतो न वस्तुस्वरूपं व्यवतिष्ठत ; न चैतदस्ति । अतो न पुरुषप्रत्ययानुरूप्येण वस्तुस्वरूपव्यवस्थेत्याह--अत इति । वस्तुः खरूपानुरूपैव तु पुरुषप्रत्ययस्य व्यवस्थोचित, वस्तुपूर्वकत्वात्तस्येत्याह- व्यवस्थितेति । एवं भिन्नस्वभावब्रून् घटः स्वहेतुभिस्तत्स्वभाव एव जनित इति न प्रतियोग्यापेक्षा पैौरुषेयीमनुवर्तत इति प्रकृते योज्यम् । किंच यदि पठापेक्षो घठस्य मेदःततः पटस्यापि घटापेक्ष भेद इतीतरेतर अयः स्यादित्याह --परस्परेति । इममेव लोकार्थं पुनरन्यथा व्याचष्टे--