पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

159 माशङ्कन्याह--परमाणुरिति । परमाणुरपि भिन्नत्वात् मेदेन खभाव भूतेन द्विधा कृतो नैकः स्यादित्यर्थः । तत’ किमित्याह-तथा चोति । एका भावे तदभावादेकैकसमुच्चयरूपोऽनेकेऽप्यस्य वस्तुनो नात्मावकल्पत इत्यर्थः। न केवलमेकः, न कोऽपत्यथे. । तदेवमेकमनेकं च वस्तु न घटते । तृतीयश्च प्रकारो नास्ति । अतो निःस्वभावत्वात् वस्तुनोऽभावप्रसङ्ग इत्यभिप्रायेणाह- तत्रेतेि । अरूपेणेति लोकार्धस्यान्या व्याख्यारभ्यते — अन्येति । तामाह—व्यतिरेक्षितेति । योऽयमनन्तरोक्तो मेदो वस्तुनो व्यतिरिक्तोऽव्यतिरिक्तो वेति विकल्पःतस्मिन् प्रत्यवतिष्ठन्ते केचिदित्यर्थः । प्रत्यवसानमाह--बस्त्विति । वस्तुशून्यः प्रत्ययो विकल्पः, तेन विरचितं शरीरं यस्य स तथोकः । एतदेव प्रपञ्चयति-तथा हीति । तदिति वस्तूच्यते; तस्य भावस्तच्वं वस्तुखरूपत्वम् वस्तुनोऽन्यत्वेनानन्यस्वेन वा निश्चित्य वक्तुमशक्यस्तच्चान्यत्वाभ्यामनिर्वचनीयः । ननु यदि दो वस्तुनो न मित्रों नष्यामिन्नःनास्त्येव तर्हि शशविषाणवत् ; कमी व्यवहारं प्रवर्तयतीत्यत आह---अनादीति । अनदिय भेदवेङ्कल्पः, तब नसना उपादानकारणं यस्य विकल्पस्य तेन विरचितं शरीरं यस्य मेदस्य स तथोक्तः । एतदुक्तं भवति- शशविषाणं न प्रतिभाति ; भेदस्तु तवतोऽसन्नपि वासनावशात् प्रतिभातीति व्यवहारहेतुः; न तु भेदो-नाम परमार्थते वस्त्वस्ति, यस्य तवमन्यत्वं वा विचार्यत इत्यर्थः । अत्रोत्तरः माह--तत्रते न विद्यते परमर्यते भिन्नत्वं द्विचन्द्रस्येव नावकल्पत इत्यर्थः । एतदेव विवृणोति--यदीति । अरूप इत्यस्य विवरणं निःस्वभाव इति । यदि मेदो वस्तुढच्या नास्तिकिंतु कल्पितरूपः, ततः परमार्यतो भेदाभावान्न वस्तुनो भिन्नत्वं परमार्थतः स्यात् । न हि कश्पितेन मिथ्या तेन खभावेन द्वित्वेनेव चन्द्रमसः पारमार्थिकी तद्वत्ता युज्यते ; किंतु कल्पितैव स्यादिनि त्वयापीष्टः । तदेतदस्माभिरुच्यमानं किमिति भवान् नानुमन्यते । वयमप्येतदेव नृपः--न भेदे नाम परमार्थतोऽस्ति ; किं त्वविद्याविलसितमेतद्भिन्नत्वमित्यर्थः । आवत इति ; सदृपतया, परमार्थत इति यावत् ; भावेभ्यो बान्य इत्यन्यार्थयोगे पञ्चमी । सर्व एवायमयोंऽस्य ओकस्य तन्त्रेण ग्रन्थकृतोऽभिमत इति न व्याख्याविकस्पभ्रमः ।