पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीझण्डः 15 न च न प्रीतिकरी, न च न काम्यते; अतः कथं तेषु साध्याभाव इत्याशङ्कयाह-तथा हीति । यो खनतिक्रान्तप्रतिषेघशास्त्रः, तस्य निषि इत्वेनानर्योदया हिंसा न प्रीतिकरी न काम्या; न च साधयशः अतस्तं प्रति साध्यांशभाव इत्यर्थः । अनर्थ उदीयते उद्च्छस्यस्या इति अनर्योदया । अथ तीव्रतघाक्रान्ताचित्ततया समुद्धतेन तमसा तिरोहितार्थ नर्थविवेकज्ञानस्यात एवानथमपि हिंसामर्थत्वेन पश्यतोऽतिक्रान्तप्रतिषेच- शतस्य कस्यचिदेवंभूतस्य पुंसो हिंसा साध्या भवति ; इत्यं श्येनादिषु साध्यांशसंभव उच्यते ; तया ज्योतिष्टोमादिविधिष्वप्यनाद्यविद्यावतामविद्या कल्पितास्त्रयोऽप्यंशाः संभवन्तीति तानविद्यासिडानेवाश्रित्य तेषामविद्यावता- मर्थेन हितानुशासनमुपपद्यत इति न तेनांशत्रयविभागसवाक्षेपः; तदे तदाह-अत्रेति । विधावतां तविद्याकार्पितांशत्रयासात् कथं कर्म विधय इत्याशङ्कयाह- प्रतिबुद्धस्त्वितेि । साक्षात्कृताद्वयात्मतत्त्वास्त्वंशत्रय मसत् आत्मानं वा अकर्तारं मन्वानाः कर्मविचिक्षिर्नानुशिष्यन्ते ; तेन तान् प्रति किमंशत्रयसवेनेत्यर्थः । अत्र दृष्टान्तमाह--यथेति r नानु शिष्यन्त इत्यनुवर्तते । क्रोध एवारातिः क्रोधारातिः, स निर्जितो यैस्ते तथेक्ताः । उपसंहरति--तदेवमिति ; तत् तस्माच् एवं पूवकेन प्रकारेण व्यवहारतः व्यावहारिकप्रमाणेभ्यः प्रत्यक्षादिभ्यः सिद्धो योंऽशत्रयभेदः स एवाश्रयो येषां कर्मविधीनां तेषु यद्यप्यंशत्रयभेदप्रतीतिरस्ति तथापि तेषां कर्मविधीनां भेदपरत्वाभावात् न तत्र क्षेत्रे प्रमाणमित्यर्थः । ननु प्रतीयते चेत् कथं न तत्र प्रामाण्यामित्याशङ्कय न प्रतीतिमात्रेण प्रामाण्यम् अपि तु तात्पुर्यत इति वर्धयितुं दृष्टान्तमाह--वृत्तान्तेष्विति । वपोवननादि- वृत्तान्तेषु “ प्रजापतिर्वपामुदक्रिवदत् " इत्यादीनमर्थवादानां प्रतीतिमात्रेण यथा न प्रामाण्यं तथा कर्मविधीनां नांशत्रयभेद इत्यर्थः । यदा चास्रायो न भेदे प्रमाणं न च मेदसत्तामक्षिपति, तथा सति नाम्नायस्य परस्पर व्याहतिरिति न तया तस्य दुर्बलवमित्यमिश्रायेणाह-तथा चेति। एवमान यपरस्परल्याहृतिं परिहृत्य प्रत्यक्षादीनामेव दुर्बलत्वसिद्धये तामापादयति अपि चेति । कुत इत्याह-बाध्येति । कुत्रेत्याह-रजतेति ।