पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 बससिद्धिव्याख्या प्रथमया मुख्यया दृश्या पूर्वपदैकवाक्यतां प्रतिपतुमशक्नुवन्ति द्वितीयया ण्या वृत्या पूर्वपदापेक्षितमर्थं समर्पयन्ति एकवाक्यतासामथ्र्योत् एक वाक्यताबलेन, अन्यथा अन्योन्यमनन्वितार्थानां पदानामेकवाक्यतैव न स्याल—इत्यनेन हेतुना तत्र मुख्यस्य पूर्वस्य बलीयस्वमित्यर्थः । यथा ॐ प्रजापतिस्तपोऽतप्यत । ततस्तपस्तेपानात्रयो वेदा अजायन्त " इत्युप क्रम्य “ उच्चै झचा क्रियते, उच्चैः सान्ना, उपांशु यजुषा ” इत्यन्ते । भूयते । तत्र संशयः—किमृगादिशब्दा यथालक्षितऋगादिजातिवचनाः, किं वा ऋग्वेदादिवचनाः इते ; तत्र मुख्यत्वादृगादिजातिवचना इति प्राते सत्युपक्रमे वेदसंकीर्तनात् तरॅिमश्नानुपजातविरोधितया मुख्यार्थं व्यवस्थिते तदपेक्षितमर्थमृगादिशब्दा मुख्यया युच्या समर्पयितुमशक्नुवन्त द्वितीयया मृच्या वेदवचना इति सिद्धान्तितम् । यनूक्तम्—कूर्मविधयः साध्यसाधनेतिकर्तव्यतादिभेदपराः ; वेदान्ताश्रा भेदपराः ; तेनाम्नायः खयमेव परस्परव्याहतो दुर्लभप्रामाण्यः ; अतः प्रत्यक्षादिविरोधे सुतरां तस्याप्रामाण्यं सूचितमिति, तदनुभाषते--यच्विति । एवमनुभाष्य दूषयति--तत्रेति । यत्परः शब्दः, तत्र शब्दः प्रमाणम् ; न च कर्मविधयो भेदसद्भावप्रतिपादनपराः ; , किंतु व्यवहारसिद्धे मेद मुपाश्रित्य ‘इवं साध्यमनेन साधनेनेत्थमनयेतिकर्तव्यतया साधयेत् ' इत्यंशत्रयविशिष्टपुरुषहितभावार्थविधिप्रधानाः । तेन न ते भेदे प्रमाणमिति तैः सहामेदश्रमाणानां वेदान्तानां कुतो व्याकुलत्वमिति भावः । अत्र परश्चोदयति -स्यादेतदिति । यद्यपि शब्दों में भेदपः किंतु भावार्थ विधिपरः, तथापि भेदमर्थमाक्षिपति ; न वसति भेदे . सध्याचंशत्रयवि भागोऽस्ति । न च तस्मिन्नसतिं ताद्विशिष्टस्य भावार्थस्य विघिरुपपद्यत इत्यर्थः । तत्परिहरति--उच्यत इति । सत्यं हितानुशासनं भेदभत्तामा- क्षिपेत् यवंशत्रयमन्तरेण तन्न स्यात्; यया श्येनादिविधिषु ‘‘न हिंस्यात् इति प्रतिषेधात् साध्यांशभावेऽपि भवति, तथा सर्वत्र कर्मविषिष्वंशन्नया भावेऽपि भविष्यति ; असे न भेदमाक्षिपन्तीति भावों ननु स्पेनादिषु हिंसा साध्या; स च सा रवघुष्पवत नित्यं नास्त्येव, छतायाः सा । ११