पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

192. ब्रक्षसिद्धिव्याख्या सत्यम्; वाक्यार्थानिष्पत्तौ तु स हेतुः, नापां श्रुतशान्ततापरत्वोत्सर्गे ; तदुत्सर्गस्तु वाक्यार्थामिष्पत्तिहेतुक एव । ननु ! आदित्यो यूपः इत्यादौ प्रमाणान्तरविरोधादेव गौणत्वम् ; विरुध्यते हि हे प्रमाणान्तरे- गानुपलब्ध्या यूपस्यादित्यता । न हि । तत्रापि प्रमाणान्तरविरोधो गौणतायां हेतुः, अपि तु प्रमाणथुनिष्पत्तिरेव । सा हि वेत- सशाखदौ इष्टशक्तिरव्यभिचारिणी च । यूपस्यादित्यतायाः पशुनियोजन वाक्यार्थेऽनन्वयात् प्रमाणार्थनिष्पत्तिरस्त्येव । व्यभिचारी तु प्रमाणान्तर- विरोधः, वेतसशारवादावसत्यपि तस्मिन् गैौणताश्रयणात् ; अव्यभिचारि च कारणमुचितम् । तस्माद्युपादावपि प्रमाणार्थनिष्पत्तिरेव गौणतानिमित्तमिति सितम् । द्वितीयस्या वृत्तेरिति पञ्चम्यौ । वेदान्ते तु तथा नस्तीति न गौणत्वमित्यभिप्रायेण व्यतिरेकमाह--यत्र त्विति । अपावतेन्ले ; खरसा- निवर्तन्त इत्यर्थः । अत्रैव प्रागुक्तां युक्ति स्मारयति-न हीति । अत्रैव मतान्तरमाशङ्कयति-- अथेति । एवमिति ; आम्नायस्य गौणत्व- मित्यर्थः । उभयानुग्रहं विवृणोति--एवं हीति । आम्नायस्य गौणत्वे जात्याद्यात्मना मावोनामभेदः स्खतश्च भेद इति भिन्नविषयत्वेनाविरोधादु भावप्यनुगृहीतौ स्याताम् ; नानायेन प्रत्यक्षादेरत्यन्तबाधेत्यर्थः । व्यतिरेक- माइ--अन्यथेति । यदि पुनराम्नायो मुख्यार्थः स्यात् तदनीमद्वैतस्य सत्यत्वात् दृतविषयं प्रत्यक्षाद्यत्यन्तमपबाधितं स्यात् , नोभयानुग्रहः; न चोमयानुग्रहे सत्येकस्यात्यन्तबश युक्तेति भावः । तदेतत दूषयति-नैत दिति । कुत इत्याह--प्रमाणते ; अयमर्थः--प्रमाणसामर्यस्यानुसारेण प्रमेये काचित् कल्पना भवति ; यथा—ीहियवनियमविधिद्वयसामथ्र्यानु सारेण त्रीहियवादौ प्रमेये विकरुपकरुपना ; यथा च–“ दर्शपूर्णमासा- भ्याम् ” इति द्विवचनसामथ्र्यानुसारेण समुच्चयकल्पना ; यथा च-उदिता नुदितहोमादौ शास्त्रान्तरसामथ्र्यानुसरेण चरणभेदेन व्यवस्थाकल्पना । प्रमाणखरूपे तु खरसतः खभावेनौत्पत्तिक्या शक्तय या मुख्यार्थ सिद्धिस्तां परित्यज्य नोमयानुग्रहाय गौणत्वकल्पनायां किंचित्कारणमस्तीति । उपसंहरति-। प्रमेय इत्यनुवर्तते । परोक्तं हेतुं निराह --तस्मादिति