पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11A प्रवृत्तिर्जुष्टा ; अतोऽत्रापि तयैव भवितुं युक्तमित्याशङ्क्य तवैषम्यमाह लैकिका इति । लौकिकास्तु शब्दाः प्रमाणान्तरदृष्टेऽर्थे प्रयुज्यन्ते । तेन ते प्रमाणान्तरापेक्षमर्थमभिदधतीति हेतोर्मुक्ता तेषां प्रमाणान्तरानुसारिणी वृत्ति रित्यर्थः । व्यतिरेकमाह--तुल्ये त्विति । प्रमाणान्तरा प्रत्यक्षास्नाययोः नपेक्षत्वे तुल्ये तद्विपर्ययः । किं न भवति ? प्रत्यक्षादीन्येवाम्नायानुगुणतथा किमिति न नीयन्त इत्यर्थः । विरुद्धव्यभिचारिहेतुद्वयवदन्योन्यव्याघाताद प्रामाण्यमेव चोभयोरपि । किमिति न स्यात् ? " पौर्वापर्यं पूर्वदौर्बल्यम् " इति न्यायेन रजतज्ञानस्येव शुक्तिज्ञानेन पूर्वस्य प्रत्यक्षादेराम्नायेन बाधः किमिति न स्यादित्यर्थः । अन्त्य एवात्र पक्षः सिद्धान्तोऽभिप्रेतः ; पूर्वी तु सर्वथा प्रत्यक्षद्यनुगुणतयाम्नायस्य वृजिनं प्राप्नोतीत्येवंपरौ प्रौढिवादि तयोक्ताविति मन्तव्यम् । दृष्टान्तमेव द्रढयति--न त्विविति । खलुशब्दः प्रसिद्धिद्योतनार्थः । प्रसिद्धमेव तद्रजतज्ञाने यत्पूर्वविरोधादुत्तरमविषयमन्य- विषयं वा न कल्प्यते, किंतु पूर्वस्यैव बाधेति, तथेहापि भवितुमर्हतीति भावः। अविषयमित्याम्नायस्याविवक्षितार्थत्वपक्षसाम्यार्यमुक्तम् । ननु प्रमाणान्तर विरोधेऽपि चेन्मुख्यमर्थ शब्दो न जहाति, कथं तर्हि ॐ आपो वै शान्ताः इत्यादिषु गुणवादः ! न अत्र प्रमाणान्तरविरोधादन्यत् गुणवादे निबन्धन- मस्ति ; तदेतदाशङ्कयति –कथमिति । सिद्धान्ती त्वाह--यत्रेति । यद्वाक्यं यावत्प्रमाणं तस्य तावतो यत्र शीतैरभिधेयभूतैर्मुख्यैरभैरन्योन्यमनन्वयात् अयं वाक्यार्थीभूतो विषयो न निष्पद्यते, तत्र द्वितीयस्या अपि वृत्तेर्लके शब्दांनी वृत्तिदर्शनात् तया शब्दस्य प्रमाणस्य विषयलाभ आश्रीयते ; यया

  • वेतसशरवयावकाभिधानं विकर्षति ” इति वेतसशारखा वकं विधीयेते ;

८ आपो वै शान्तः ” इति चापः स्तूयन्ते ;। तत्र विधिस्तुत्योर्भिन्नविष- यत्वेन परस्परमनन्वयाद वाक्यार्थासिद्धौअसत्यपि प्रमाणान्तरविरोधे भूत- मपां स्तुतिमुच्चुंयामिनस्तुत्या अभिजातः स्तुतो भवतीति वेतसशारवा- वकास्तुतिपरत्वमेवाश्रीयते । एतदुकं भवति—न वेदे प्रमाणान्तरविरोधो गौण त्वहेतुः, किंतु मुख्यर्यत्वे प्रमाणविषयसिद्धवनुपपत्तिः । ननु विधिस्तुत्योरेक- विषयत्वमन्यत्र प्रतीतम्; अतस्तयोर्भिन्नविषयत्वेऽस्त्येवात्रापि प्रतीतिविरोधः।