पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 ब्रह्मसिद्धिव्याख्यां विषयःन वेदान्तशब्दजनितस्य विभक्तानां नानाभूतानां पदार्थानामन्योन्य संसर्गस्तमुद्ग्रहीतुं शीलं यस्य तस्येत्यर्थः । एतदुक्तं भवति--अद्वैतं ब्रह्म तु विगलितवैतविकल्पेनैव प्रत्यक्षज्ञानेन ज्ञातुं शक्यते, न तु शाब्दज्ञानेन ; तद्धि नानपदार्थसंसर्गरूपवाक्यार्थविषयत्वेन वैतविषयत्वान्नाद्धेत बन गमयतीति । ततः किमित्याह--तदुरपत्ताविति; निमित्तसप्तमी ‘चर्मणि द्वीपिनं हन्ति । इतिवत् । कर्मान्वयप्रस्तावे तुल्यन्यायत्वेन प्रसङ्गादुपासनाद्यन्वयोऽपि दर्शित इति द्रष्टव्यम् । उपासनमनुदिनमनुचिन्तनम् । आदिशब्देन बखचर्यादि ग्रहणम् । एवमाशङ्कच दूषयति-क इति । अस्य प्रत्यक्षज्ञानस्य शब्द ज्ञानात् को विशेषःयेन हेतुना जातेऽपि शाब्दज्ञाने तत् प्रत्यक्षज्ञानं प्रायैते तदर्थं च कर्माण्यपेक्ष्यन्ते ; “ स एष नेति नेत्यात्मा” “एक एवायमद्वितीयः " इत्यादिशाब्दज्ञानस्याप्यर्द्रतार्वषयत्वाविशेषान्न कोऽपि विशेषस्तस्यास्तीति भावः । इतरः शाब्दतानात् प्रत्यक्षस्य विशेषमाह-पष्ट|भवमिति । तत् दूषयति-नेति । अस्त प्रत्यक्षस्य स्पष्टाभत्वम्; तथापि न तदर्थनीयम् । स्पष्टाभत्वस्यैवानुपयोगादित्यर्थः । अनुपयोगमाह--ज्ञानं हीति । ज्ञेयप्राप्तये ज्ञानमपेक्ष्यते, न च सा शाब्दज्ञानान्न भवतीत्यतः किं स्पष्टाभवेन ? अतो न तदर्थं प्रत्यक्षे प्रार्थनीयमिति भावः । नन्वेवं तर्हि सर्वस्याः प्रमाणान्तर जायाः प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षमर्यताम्; तदेतदशङ्कयति-प्रमितेरात। प्रत्यक्ष परं प्रधानं यस्या इति विग्रहः; प्रत्यक्षपर्यवसायित्वादित्यर्थः; तदर्यत इति वक्ष्यमाणेनान्वयः । कुतः प्रमितेः प्रत्यक्षपरत्वमित्यत आह- तत्रेति । तत्र तस्मिन् प्रत्यक्षे सति प्रमातुः नैरुत्सुक्यादित्यर्थः । तथा हि-धूमान् दिना अग्न्यादि दूरे प्रमितमपि प्रमाता पुनः प्रत्यक्षेण प्रमिसति; एवमा शङ्कय दूषयति--नैतदिति। न हि सर्वा प्रमितिः प्रत्यक्षपरा, वैदिक्या धर्मादिसंमित्या व्यभिचारात् ; अग्न्यादावपि व्यवहाराय संनिधानं प्रमाता पेक्षते, न तु प्रत्यक्षप्रमितिम् ; दैवात् तत्समीहितंस्य सा भवतीति भावः । तथा बसंनिहिते सूर्यगत्यादौ न सा भवति, भवति च प्रमातुर्नरुत्सुक्यम्; अतो न प्रत्यक्षपरा प्रमितिः, किं तु प्रमेयाचिगममात्रपरा। तत्राधिगते प्रमेये किमपरमाकाङ्क्ष्यते ? न किंचिदिस्यर्थः । नन्वधिगतेऽपि प्रमेये प्रमाणान्तर माकाक्षिष्यत इत्याशङ्कच दूषयति-प्रमाणान्तरमिति । प्रमाणान्तरं हि