पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$1 बलकाण्डः जरयतीति ; तस्मात् यद्यस्य निवर्तकं तत् तस्य विरोधि ; निवतिं च विद्य मिथ्याज्ञानस्य ; तस्माद्विरोधिनति । ततः किमित्याह--तदिति । यदा विरोधिभावोत्पत्तिरेव पूर्वप्रध्वंसः विद्या च विरोधिनी, तदा विद्यो- त्पत्तिरेव मिथ्याज्ञानप्रध्वंस इति विद्योत्पत्तौ मिथ्याज्ञानं नष्टमेव भवति ; अतो दात्रेणेव लयनाय विद्यया मिथ्याज्ञाननिवृत्तये न पृथक् प्रयतन्ते, न सहकारि चपेक्षन्त इति न विपर्ययज्ञाननिवृत्यर्थं ज्ञानस्य कर्मसंबन्ध इति भावः । अथोच्यते--स्यादेतत्, यद्यविद्या बन्धुहेतुः स्यात् ; ॐि तु कर्माणि बन्धहेतवः । न च तद्विरोधिनी विद्या, किं त्वविद्याविरोधिनी ; अतो न विद्यो त्पत्तिरेव कर्मध्वंस इति पृथग्विद्यासाध्यः ; अतस्तत्र सहकारित्वेन कर्म पेक्षया कर्मानुप्रवेश इत्यभिप्रायेणाशङ्कयति--अथोच्येतेति । तदूषयति तच्चेति । एतदुक्तं भवति-कर्माण्यविद्याविलसितान्यवेद्याय निवृत्तौ निमित्तनिवृथा स्वयमेव निवर्तन्ते , न तु तन्निवृत्तिः पृथक् साध्या, यत्र कर्माणि सहकारितयापेक्ष्येरन् । अविद्यया मूलत्वायावदविया तावत् ‘कर्मेदस्, इदं च फलम्’ इति विमागव्यवहारमात्रम् ; तस्य व्यवहारस्य प्रमृष्टाः निरस्ताः अशेषाः प्रपशभेदा यस्मिसत् तथोक्तम्; अत एव विशुद्धे च तत् विज्ञानं च तैस्योदये कुतः संभव इत्यर्थः । मात्रग्रहणमपरमार्यत्वयोत- नार्थम् । इममर्थं श्रुत्या द्रढयति--तथा चेति । विपर्ययसैशणभ्यां कर्मा नपेक्षसम्यग्ज्ञाननिवर्याभ्यां सह कर्मणः सम्यग्ज्ञाननिवर्यत्वेन तुल्यवत् पाठात कर्मानपेक्षसम्यग्ज्ञाननिवर्यत्वमवसीयत इत्यर्थः । हृदयग्रन्थिः बिप- यसो मतः। प्रकारान्तरेण ज्ञाने कर्मणामन्वयमाशङ्कय दूषयति--अथेति । ज्ञाने हि संशयविपर्यासावेव मले, नान्यत् ; ते च प्रमाणजनिते ज्ञानेऽसं मवनिरस्ते; तेन तन्निवृच्यर्थमपि कर्मापेक्षा वृथेत्यर्थः । पुनरपि प्रकारान्तरेण ज्ञाने कर्मान्वयमाशङ्कयति--अथ मतमिति । शब्दजनिताद्रह्मज्ञानादन्यदपि विगलिनोऽपभ्रष्टो विभागोद्वाहः प्रपथभेदाव• भासो यसिस्तैन्, अत एव सर्वविकल्पातीतं वियदादिजगद्विकल्परहितं तवं बढ्तवं यसरत • तादृशं प्रत्यक्षे ज्ञानमिष्यते ; तस्यैव’च बह गोचरे