पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धिर्यासैया मित्युच्यते । तस्यापि विपर्ययज्ञानमेव निमित्तम् । एवमुभयोरनादित्वेन बीजाडुरादिवत् कार्यकारणभावेन व्यवस्थानान्न निर्निमित्तत्वादिदोष इत्यर्थः । तदेवं नाग्रहणनिवृध्या विपर्ययस्य खयं निवृत्तिः; अतो विद्यया सोच्यते ; तेन तत्र साध्यस्थ सम्यग्ज्ञानस्य सहकार्यपेक्षा स्यात; सत्यां च तस्यां कर्मणामभिसंबन्ध इति फलमुपसंहरति । तदेतदसंबन्धवादी दूषयति- एतच्चेति ; तदभ्यसारमित्यर्थः । कथमसारमित्याह-न वर्विति । रवल शब्दः प्रसिद्धिद्योतनार्यः प्रसिद्धमिदं लोके, यत् शुक्तिकादौ मिथ्या ज्ञानपूर्वकसम्यग्ज्ञाने जाते मिथ्याज्ञाननिवृत्तये सम्यग्ज्ञानोत्पादात् पृथक् । यत्नं न कुर्वन्ति । न च सहकारि . व सम्यग्ज्ञानादन्यत् किंचित् कर्माचपै क्षन्ते, येन कर्मणां सहकारित्वेनानुप्रवेशः स्यादित्यर्थः । ननु दात्रेणेव लव नाय सम्यग्ज्ञानेन विपर्ययनिवृत्तये किमिति न प्रयतन्ते, किमिति वा तद् देव सहकारि नापेक्षन्ते इत्याशङ्कयाह । यदि हि दात्रादिव लवनं सम्य ज्ञानात् विपर्ययज्ञाननिवृत्तिः पृथक् कार्यं स्यात् ततो दात्रेणेव लवनाय सम्यग्ज्ञानेन विपर्ययनिवृत्तये पृथकू प्रयतेरन् , सहकारि वान्यदपेक्षेरन् ; न स्वेतदस्ति ; न हि दात्रमिव सम्यग्ज्ञानमुत्पाद्य पश्चान्मिथ्याज्ञाननिवृत्तये ध्यापार्यते । किं तर्हि ? तदुत्पाद एव मिथ्याज्ञाननिवृत्तिः ; यतोऽविद्या- विरोधिनो भावान्तरस्योत्पाद एव पूर्वप्रध्वंसः अतः किं पृथक् प्रयतेने त्यर्थः । भावान्तरमात्रस्य पूर्वप्रध्वंसत्वे घटभावे मृदः प्रध्वंसः स्यादिति विरोधिग्रहणम् । भावो ह्यन्याभावः , अन्याभावो न माव इति पूर्वोक्तः सर्वाभावप्रसङ्गदोषोऽपि नास्तीति भावः । ननु न विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, किं तु शून्यं तदित्याशङ्कयाह-न धान्यमिति । शून्यवस्तु न किंचिदित्यर्थः। कुत इत्याह-अन्यथेति । यदि प्रध्वंसः शून्यं स्यात् ततस्तस्य शशविषाणबदकार्यत्वान्न तत्र हेतुकृत्यमस्तीत्यहेतुमान् स्यात् ; मुद्रादिहेतुकश्च स प्रसिद्ध इति भावः । ननु भवतु विरोधिभावान्तरो पाद एव पूर्वत्रध्वंसः, विद्या तु ज्ञानत्वेन सजातित्वान्न मिथ्याज्ञानविरोध धिभीत्याशङयाह-विरोधिनी चेति । -अयमशयः —न विजातिस्वसजा तित्वे विरोधाविरोघयोर्निबन्धनम् , तत्र विजात्योरपि रूपरसयोरेकत्राविरो बात; सनारयोरपि न विरोधात् , यथा बिषं विषं शमयति, पयः पयो