पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8b बलकण्डः तत्कर्माङ्गमितीति परश्चोदयति--स्यादेतदिति । यदि नामौपनिषदाभज्ञानं दृष्टेन न कर्माङ्गम् , तथायं प्रयोजनादिवददृष्टेन भविष्यतीति भावः । ननु प्रवृत्तौ सत्यां प्रयोजनादिवददृष्टार्थत्वं स्यात् ; औपनिषदास्मविदस्तु निष्प- योजनत्वान्निरुपायत्वाच्च कर्मणि प्रवृचिरेव नास्तीत्युक्तम्; अतः कुत्रौपनिष दात्मज्ञानमदृष्टेनाङ्गं भविष्यतीत्युच्यते ? एताभ्य एव वक्ष्यमाणश्रुतिभ्यः परमानन्दाद्वयधृतिरुपचरितार्थं करप्येतेति परो मन्यते ; ताः श्रुतीरुदा- हरति--यदेवेति । ‘विद्यय’ इत्यारमाविद्योक्तेति पराभिप्रायः । तथा ।

  • यो वा एतदक्षरमविदित्वा गार्थस्सिन् लोके जुहोति ददाति तपस्तप्यति

बहूनि वर्षसहस्राण्यन्तवानेवास्य स लोको भवति ” इतिश्रुत्या ब्रह्मविद्या रहिततया यागादिकर्मफलान्तववप्रदर्शनद्वारेण केवलकर्मनिन्दया न हि निन्दा निन्द्य निन्दतुम् , अपि तु निन्दितादितत् प्रशंसितुम् ” इति विद्यासहितकर्म प्रशंसा कृता। प्रशंसा च विघानायेति ब्रह्मविद्याया यागाङ्गत्वं दर्शितम् । तथा = तं विद्याकर्मणी समन्वारभेते ” इति संशब्दस्य सहार्यत्वात् ब्रह्म विद्याकर्मणोः समारम्भे सहभावो दर्शितः । एकप्रयोगे च कार्यारम्भे सहभावो भवति । न चासौ दर्शपूर्णमासवत् , समप्रधानयोः समुदाये फलाश्रवणात् , यागादेभ्यश्च फलश्रुतेः ; यागादयः प्रधानम्, सामथ्यात्; विद्या अङ्गम् , ५ फलवत्सन्निधावफलं तदङ्गम् ” इति न्यायादिति भावः । सिद्धान्ती त्वाह--पूर्वमिति । पूर्वं यत्प्रथममुपन्यस्तं यदेव विद्यया करोति इति वचनम्, तत्तावत् प्रकृता या उद्गीथविद्य उद्थे समभावक्षरोपा सनलक्षणा तद्विषयम् , न ब्रह्मविद्याविषयम् ; अतो न तस्याः कर्माङ्गत्वं बोधयतीत्यर्थः । ‘विद्या’ इति सामान्यशब्दोऽपि प्रक्रमविशेषात् विशेषे वर्तत इति वदितुं प्रकृतग्रहणम् । तावच्छब्दः क्रमार्थः । कथमुनीथविद्य प्रकृतेत्यत आह-ओमिति । तथा यदेव विद्यया ” इत्यतः परेणापि यो वा एतदक्षरमविदित्वा ” इत्यनेन क्षयिफलत्वेन कर्मनिन्दया अक्षर ज्ञानस्तुतिः क्रियते, न तु ब्रह्मविद्यायाः कर्माङ्गत्वज्ञापनम् । ननु केवल कर्मनिन्दया विद्यासाहित्यं विधिसितमितं गम्यते । मैवम्; एवं हि पर स्तात् विद्यासहितं कर्म संस्तुयात् ; इह तु “ यदेतदक्षरं गानैिं विदित्वा स्माछोकात् नेति स बक्षणः ” इत्यादिना केवलाक्षरज्ञ।नं स्तूयते ; तस्मा-