पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षरज्ञानेस्तुतावेवास्य तात्पर्यम्, न विद्याकर्मणोः साहित्यविधावित्यदोषः । तथा विद्याकर्मणोरन्वारभ्मेऽपि साहित्यं नास्तीत्याह–विद्योति । भेदेनेति विभागेनेत्यर्थः । विभागमेवाह-विद्यावन्तामिति । ननु संशब्दे सहार्थे जीवति कथमेवं व्याख्यायते ? विद्याकर्मणोरेकत्वसाहित्यासंभवादिति ब्रुमः । कथमसंभवः ? उच्ग्रतेन तावदपरविद्याकर्मणोरन्वारम्भे साहित्यम् । अन्योन्यनिरपेक्षत्वात् । अन्योन्यनिरपेक्षत्वं तु पृथक् फलश्रुतेः, ज्योतिष्टे माग्निहोत्रादिवत् ; एकफलवे हि कार्यारम्भे साहित्यं स्यात् यथा दर्शपूर्ण मासयोः । परविधा तु कर्मपरिपन्थिनी कथं कर्मणा समुचीयेत ? न च सा जन्मन्तरारम्भिका, अपवर्गफलत्वात् । तस्माद्विभज्यैवापरविद्याकर्मणो- रन्वारम्भकत्वम् । तदुक्तम्--‘ विभागः शतवत् ” इति । संशब्दश्चा- विवक्षितसहार्थः सम्यगर्थानुवादः। अतः सुक्तम्-भेदेनेति । प्रकरणार्थमुप संहरति--तस्मादिति । एवमपीति ; विपर्ययेणापीत्यर्थः । यद्वा न केवल मात्मज्ञानस्य दृष्टार्थत्वेन, अपि त्वेवमपि श्रुतिचोदितस्य तस्यादृष्टार्थतया- पीत्यर्थः । एवं ज्ञानं कर्माङ्गमिति विपर्ययपक्षे निरस्य पक्षान्तरं दूषयितुमनुभा अते —येऽपीति । असंबन्धमेव मन्यन्त इत्यनन्तरेण संबन्धः । कथं तयोर्विरोध इत्यत आह-ब्रेतेति । साधनादिदैतविषयं कर्म, हैतरहितात्म- विषयं त्वात्मज्ञानमिति हेतोर्विरोधादनन्वयः । इतिशब्दो हेत्वर्थः । दूषणमाह तेषामिति । कुत इत्याह- प्रमाणादीति । यदि द्वैतविषयं विरोधादद्वैतज्ञानेन सह न संबध्यते, ततः प्रमणप्रमेयप्रमात्रादि दैत मपि न तेन संबध्येत ; न च प्रमाणाद्युपायसंबन्धमन्तरेण . ज्ञानमुत्पद्यते ; ततश्चाद्वैतज्ञानस्यानुत्पाद एव स्यादित्यर्थः । अथोच्यते-प्रमाणादिविभाग उपायःउपेयं चाद्वैतज्ञानम् , तयोश्च पौर्वापर्योदयौगपद्यम् ; अन्यथा सच्यदक्षिगणशुङ्गवदुपायोपेयमाव एव न स्यात् ; अतः कालभेदेन तयोर इन्योन्यसंबन्धे नाहृतज्ञानस्यानुत्पाददोष इति; तदाह-अथेति ।

  • प्रमाणादिविभागादृतप्रतिपच्योरविरोधः, ततो जातायामपि तस्यां प्रमा

ईवभागेन तयैवानुवर्तितव्यम्; अतो नार्हतप्राप्तिः; अतश्रानिमोक्षप्रसङ्ग