8 ब्रह्मसिद्धिव्याख्या एवशब्दोऽवधारणार्थः ! यस्तु कता भोक्ता जीवःस एव प्रत्यक्षसिद्धः अहम्’ इत्यपरोक्षतय। व्यवहारे स्वतः सिद्धः. न परमात्मा ; तेन सऽ- धिगतत्वात् न वेदान्तशब्दगम्य ः । अत्र चोदयति--नन्विति । जीवपरमामनोरभेदे परमात्मनि शब्दगम्ये जीवोऽपि शब्द एव ; अतः कथं न शब्दगम्य इत्युक्तमिंति’ भावः । एकत्वमेव श्रुत्या द्रढयति एवमिति । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” इति श्रुतिः जीनामना’ इति सामानाधिकरण्यात् व्याकरवाणि’ इति चोत्तमपुरुषप्रयोगाजीवात्मनोरभेदमाह ; तस्कथमनयोर्भद इत्यर्थः । । सिद्धान्ती तयोस्ताविकमभेदमभ्युपगम्य शब्दगम्यागम्यत्वे व्यवस्थामाह-—सत्यमिति । तस्यैव तु जीवस्यैकत्वेनाभिन्नस्य बिम्बप्रतिबिम्बादिवत् कल्पितमेदस्य कर्तु शक्त्यूहखुराविद्यानुविद्धं बिम्बस्येव दर्पणाद्यनुविद्धं श्यामादिरूपं जीवाख्य- ) मेकरूपमस्ति ; तच्च कर्तुत्वात् कर्मणां प्रवृत्तिहेतुः, प्रत्यक्षसिद्धत्यांनी वेदान्तमपेक्षते; तेन तच्छब्दगम्यं न भवति । यतु तस्यैवाविद्याननुबई रूपं स्वयंप्रकाशं सर्वकर्तृत्वादिविभागशून्यम् ततं तादृशं लोकव्यवहारेष्व- सिद्धत्वाच्छब्दाज्ज्ञातुमिष्यते; ततश्च सिद्धं जीवपरयोरभेदेऽपि परः शब्द प्रमेयः, न जीव इत्यर्थः । न च परज्ञानस्यैव वेदान्तजस्य कर्मसु प्रवृत्तिर्गुष्टं प्रयोजनमित्याह-तच्चेति । तच्च वेदान्तवेयं रूपं कर्मप्रवृत्तेर्विरोधि ; कथं वज्ज्ञानस्य कर्मप्रवृत्तिदृष्टं “ प्रयोजनं स्यादित्यर्थः । विरोधित्वं प्रकटयति--तथा हीति । ब्रसानन्दादि रूपमात्मानं जानतः पुंसः प्रवृत्तौ प्रयोजनं सामथ्र्ये च नास्ती त्यर्थः । वाशब्दश्चर्ये । कुतः पुनर्मेदारमविदः प्रयोजनसामथ्र्यं न स्त इत्यत आह--आप्तकामत्वादिति । तत्राप्तकामत्वं निष्प्रयोजनत्वे हेतुः । साधनाद्युपायभावश्च प्रवृत्तावसामथ्र्य हेतुः । आप्तकामत्वे च पूर्वोक्तं परमानन्दरूपत्वं हेतुः, सर्वानन्दानां तत्रान्तभवात् । अद्यत्वं च कर्म साधनेतिकर्तव्यतायुषायाभावे हेतुरिति विवेकः । एवमविद्यानुबई रूपं फर्म- प्रवृत्तिहेतुः, न त्वौपनिषदम् ; अतो न तज्ज्ञानं कर्माशमिति स्थितम् । नन्वोपनिषदात्मज्ञानमेव कर्माङ्गत्वेन श्रुत्या चोदितम् । तत्कथमुच्यते--
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४२०
दिखावट