पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मझझण्; 88 14 यदभिमतं सिद्धं भवति, तदाह--तथा चेति । आत्मज्ञानस्य कर्मसंबन्वा भावे सति अज्ञाते पारायें द्रव्यसंस्कारकर्मसु फलश्रुतिरर्यवादः स्यात् । इति न्यायेन न च पुनरावर्तते " इत्यादिफलश्रुतिर्यवादिनी न भव- तीत्यतः पृथफलत्वात् पृथगधिकारत्वमिति ‘ज्ञानकर्मणोर्विपर्ययेणैकाधि- कारत्वम्' इति यदुक्तं तन्निरस्तं भवतीति भावः । ननु स्यादेवं यदीयं फलश्रुतिः स्यात् इयं तु “ घृतकुल्याः क्षरन्ति" इतिवत् वर्तमानापदेश त्वात खर्गकामादिवत्कामोपबन्धाभावाच्च खरसतः फलश्रुतिर्न भवति; ततश्च यथा रात्रिसत्रे “ प्रतितिष्ठन्ते ” इति प्रतितिष्ठेरन्’ इति विपरिणमय्य फलं कल्पितम् , तथा कल्पनीयम् ; तच्च फलाकाङ्क्षायां सत्यां रात्रिसत्रवत् कल्पनीयः; न च दृष्टे फले सति फलाकाङ्क्षा भवति ; अस्ति चात्मज्ञानस्य देहान्तरमोग्यफलेषु कर्मसु प्रवृत्तिर्गुष्टप्रयो जनम् न हि नित्यात्मज्ञानं विना सा स्यात्; अतो न विपरिणमय्य फलं कल्प्यमित्यभिप्रायेणाशङ्कयति-अथेति । तस्मात् यथाध्ययनविधि &ष्टाय नाथेवादादिकं फलं प्रार्थयते, तथात्मज्ञानविघिरपीत्याह—तस्मा दिति । अतः पृथक्फलभवान्न कर्माधिकारादात्मज्ञानविधावघिकारान्तरमिति प्तिडमेकाधिकारत्वं ज्ञानकर्मणोरित्याह--तथेति । इतिहेत्वर्थः । तदेतद्दष यति--तदप्यसादिति । कथमसदित्याह-यत इति । यस्मात् कर्मविध्य- पेक्षितात् कर्तुः भोक्तुमात्मनोऽन्य एवाकर्तृभोक्तृरूप औपनिषद उप निषदेकगम्यः पुरुषो वेदान्तेषु जिज्ञास्यते । न च तस्य ज्ञानं कर्माणि । प्रवृत्तिहेतुरित्यर्थः । कुतस्तद्धेतुर्न भवतीत्याह-न हीति । फत भोक्ता च कर्मसु प्रवर्तते ; तेन तज्ज्ञानं कर्मप्रवृत्तिहेतुःन पुनरौपनिषदात्मज्ञानम् न हि तस्यौपनिषदात्मनः कर्तृत्वमोक्तृत्वे स्व इत्यर्थः । कुतः पुनस्तस्य कर्तृत्वभोक्तृत्वे न स्त इत्यत आह--एवमिति । नाभाति न मुहैं, ‘अनश्नन्’ अभुवन इति च भोक्तृत्वनिषेधः । उपलक्षणमिदम् ; ‘निष्कलं निष्क्रियम्” इति नायं हन्ति न हन्यते” इति च कर्तृत्व निषेधो द्रष्टव्यः । एवं वेदान्तवेद्यस्यात्मनः कर्मण्यप्रवृत्तिमुक्त्वा यस्तु कर्मणि प्रवर्तते कर्ता भोक्ता च, न स वेदान्तवेद्य इत्याह-यस्त्विति ।