सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४0 ब्रह्मांसैर्बध्यख्या उक्तमिति । न केवलं धर्मविधयः काम्थविलयहेतवो न भवन्ति, प्रत्युत । विपर्ययकारिण इत्याह-- अनुपायत्वादित । कर्मविधिष्वसत्सु कामोपायभूत- यागाद्यज्ञानादनुपायत्वादपि तावदयं पुमान् कामेभ्यो निवर्तेत ; उपशाम्य त्यनेनेत्युपशमः, निरिवलस्याविद्यादेः क्लेशस्योपशमःतदूषं चात्मज्ञानमश्र येत्; कर्मविधिषु तु सत्सु तैर्दर्शितो विविधो यागदानादिरुपायो यस्य स तथाविधः पुमान् तानेव कार्यान् प्रकृतिहारिणः प्रकृत्या स्वभावेन मनो हतुं शीलान्, प्रकृतिं च स्वभावं पुंसो हर्तुं शलान्, अपि तु तं विकृतं कर्तु शीलानभिनिविशेत तेष्वेव सुतरां बद्धग्रहो भवेत् ; तेषां कामानां च प्रविलयः, प्रविलीयतेऽनेनेति प्रविलयः, तद्रथाच्चरमज्ञानादिष्टविघातकत्वेनों

  • A

ननु विषयसुखमनित्यमल्पं दुःखानुषङ्गि -च; ज्ञानफलं च परमानन्द स्तद्विपरीतः , परम येष आनन्दः" इति श्रुतेः; तेन तत्रैवाभिलाषः प्राप्तः; स च विषयानन्दाभिलाषमुच्छेत्स्यति ; तेन सत्स्वपि कमवधिषु तत्फलकामेभ्यो निवर्तेत, न तेष्वभिनिविशेत; न चात्मज्ञानादुद्विजेतेत्या शङ्कयाह - अतोऽपीति । विषयानन्दो ह्यसकृदनुभूतः; यथानुभूतः स एव चित्तगकर्षति ; न तु श्रुतिमात्रगम्यः, अननुभूतत्वादिति भावः । प्रागेवेति ; किमुतेत्यर्थः । उपसंहरति---तस्मादिति । अतो न काम- प्रविलयद्वारेण दृष्टेनैव कर्मविधीनां ज्ञानविध्यधिकारानुप्रवेश इति सिद्धम् । यद्यपि कामप्रविलयपक्ष द्वितीयः तथापि कर्मवधीनां दृष्टेनैवोपयोग इत्येतत्पक्षदृष्णप्रसङ्नेहोक्त इत्यदोषः । यदप्युक्तं सर्वत्र वेदे कचित् कस्यचिद्वेदस्य विलयो गम्यत इति, तदप्यनुभाष्य दूषयति-यदपीति । उकम्' इति वाक्यशेषः । कथ- मसदित्याह- अनिदमिति “'वर्गकामो यजेत ” इति वाक्यस्येति शेषः । तदेव विवृणोति--न हीति । यत्परः शब्दः स शब्दार्थःइदं तु खर्ग कामवाक्यं न देहातिरिक्तात्मतवावबोधपरम्, श्रुतहन्यमृतकल्पनाप्रसङ्गात् ; अपि तु यागनियोगपरम्; अतोऽत्रैव तत् प्रमाणम्; न पूर्वत्रेति भावः । ननु यद्यपि देहातिरिक्तमात्मतत्वं न श्रुतम्, तथापि देहस्यानित्यस्य