, 3B जडस्य च जन्मान्तरीयवर्गोपभोगाशक्तेरर्थादिदं देहातिरिक्तमात्मतवम्बर म्यते ; भवति चान्यपरादर्थगम्योऽपि वेदार्थः यथा उपरि हि देवेभ्यो धारयति” इति हेतुपरादुपरिघारणविधिः; ततश्च देहात्पविलयो ज्योति ऐोमादिविधेर” इत्यप्तिप्रायेणाशङ्कयति-अथेति । दूषयति--तदपीति । तदपि हस्तिनि प्रत्यक्षेण दृष्टे हस्तिपदेन इलिनोऽनुमानं यथा व्यर्थत्वाद नपेक्षितम् तादृशमित्यर्थः । गनु तत्र प्रत्यक्षसिद्धो हस्ती, न त्विह तथा देहात्मविच्य इत्याशङ्क्याह-साक्षादिति ! सत्यमात्मज्ञानविषिर्देहात्मविलय स तु प्रत्यक्षश्रुतिः लब्घ इति न तमर्थलभ्यमपेक्षते यश्रयदर्थो न स शब्दार्थः इति च न्यायः ततश्चार्थगम्यो देहात्माविलयो न ज्योतिष्टोमादिविधिषु वेदार्यः; धारणे पुनरप्राप्तस्यानुवादा संमवात् तद्विधिरिति चैषम्यमिति भावः । किं च अर्थेतिडमपि चे वेदार्थः स्यात्, ततो देहात्मत्वे देहस्यानित्यस्य जन्मान्तरीयफलभोक्तृवा संभवं मन्वानस्य तकामनया भोक्तृत्वाभिमानेन च यो मनसो ग्रन्थिः स शिथिलीभवेदपि; देहातिरिक्तेऽप्यात्मनि वेदार्थे यथा सोऽर्थगम्यो वेदार्थ स्तथा तस्य नित्यस्य 'जन्मान्तरीयफलभोगं मन्वानस्य पुंसः तत्समादि ग्रन्थेः काठिन्यं वृदत्वं यदर्थात सिध्यति तदपि वैदिकं स्यात् तत्र ज्योतिष्टोमादि विषयो विरक्तात्मज्ञानविधिप्रतिकूलवान्न तदेकवाक्यतां यायु रित्यभिप्रायेणाह-अर्थाच्चेति । वा यत्. कामादि ग्रन्थेः काठिन्यं तद्वेदिकं स्यादित्यर्थः । चकारो दूषणसमुच्चये एवेमाडपत्रं दूषयित्वा कामनिबर्हणद्वारेण कर्मविधानामात्मज्ञान नानु प्रवेशपक्षे द्वितीयं दूषग्रति-द्वितीयोऽपीति । न जातु कामंः कामा इत्यादिना वर्णितादेव काश्यानां खलुक्योपात्त स्वर्गादिकार्यनिराकाङ्क्षाणां कर्म विधीनामात्मज्ञानविध्यनुभवेचे वर्णितदेव प्रमाणाभावात् द्वितीयोऽपि पक्षोऽसमवस इति व्यवहितेनान्वयः। किं च कर्मविधीनां सहस्रसंवत्सरान्तान .ज्ञानविधिर्येषत्वे अङ्गप्रधानयोरेका घिकारत्वे सति ज्ञानाधिकृतेनैकेनैव मुमुक्षुणा कुन्नकमपसंहारः कर्तव्यः ततओं सर्वकर्मणां ज्ञानेन समुचयः, एनेन च कुत्रपसंहारः स्यात् स चा शक्य इत्यह-एषिकारौत्व- इति । एकस्याधिकारो येष्विति विग्रहः । इतिः समाप्तौ । मव
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४१७
दिखावट