पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलकाण्डः 7B खवाक्यसमधिगतं स्वर्गादि कार्य फलं येषां ते तथोक्ताः : अत एव काय- न्सरम् आत्मज्ञानाख्यं कार्य नपक्षन्ते, खवाक्यश्रुतफलनैराकडू५यदात भावः । नन्वेवमस्तु कर्मविचीन।मनपेक्षत्वम्; आत्मज्ञानविधिस्तु साधनत्वेन तानपेक्षिष्यते ; भवति चैकापेक्षयापि संबध इत्याश7ङ्कयाह--नापीति । तत्रैवं सत्युभयोर्निराकक्षयोराकाङ्क्षलक्षणपरस्परसंबन्धाभावात् कुत एककार्यत्वेनैकाधिकारकत्वं कर्मज्ञानविध्योरित्यर्थः । अत्र परमतमाशङ्कयति अथेति । स्ववाक्येऽनवगतफलः कर्मविधयः फलकाइक्षयामात्मज्ञानाविध्य धिकारमनुप्रवेक्ष्यन्तीति भावः । ननु ‘‘स्वर्गकामो यजेत ” इति श्रूयते, ततः कथमनवग्रतफलत्वमित्याशङ्क्याह- स्वर्गादीनामिति । सत्यं स्वर्गादि श्रूयते ; किं तु प्रीतिकृतचन्दनादिद्रव्यं तत्; यच्च द्रव्यं, तत् ‘भूतभव्य समुच्चारणे भूतं भव्यायोपदिश्यते’ इति कर्मणि गुणत्वेनाप्रधानत्वेन साधन तयेति यावत्, अमिसंबध्यते ; न प्रधनतया फलत्वेनेति भावः । यद्वा स्वर्गकाम इति पुरुषविशेषणत्वेन खर्गादीनां गुणत्वेनाभिसम्बन्धात् न फलत्वमित्यर्थः । सिद्धान्ती तु सोपहासमाह—वर्गेति । तत्र हि प्रीतिः स्वर्गः, न द्रव्यम्; प्रीत्यर्थे च सर्घम्, न प्रीतिरभ्यार्थी ; अतः स फलत्वेन प्रधानतया संबध्यते, न साधनत्वाद् गुणत्वेन पृविशेषणम् । अपि च स्वर्गादि । काम्यमानतया प्रधानमित्येवं स्थितम्; तदप्यनेन स्वर्गादि गुणत्ववादिना नावबुद्धम् ; अतोऽस्मै तदधिकरणं व्याचक्षतेत्यर्थः । अपि च सर्वविधिनिषेधानां नाम शब्दःरूपम् अर्थः, तदुभयात्मकप्रपञ्चविलय एव कार्यं तदपवर्गित्वे तत्पर्यवसायित्वेऽभ्युपगम्यमाने विधिनिषेघानामन्यपर त्वेन निष्प्रमाणकल्वात् , विहितप्रतिषिद्धयोरर्थानर्थसाधनत्वं न स्यात्; तर अ प्राणिनां य इमे स्वर्गदयः अभ्युदयाः, ये च नरकादिष्वपि विनिपाताः, ते विहितप्रतिषिद्धकर्मनिमित्ता न स्युः ; अतश्चकर्मनिमित्ताः सन्त आक- स्मिका अकारणकाः स्युः; न चकारणं कार्यं युक्तमिति भावः | यदि स्वप्युदयनिपाता आकस्मिका भवेयुः, ततोऽपवर्गेऽपि तथा तद्वदेमा कास्मिकः स्यात्; ततश्व तदुपायोपदेशकस्य शास्त्रस्य वैयर्थं स्यात् तदाह--तथेति । इतिशब्दो हेत्वर्थः ।