पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7८ बसिडिव्याख्या ब्रह्मविद्यायाम् " इत्यणो विधानात, क्रियत इत्यर्थः । तदधीते तद्वेद तनुरिति तास्थ्य उपचारादात्मोच्यते । । ब्रह्मविच; स हि ब्रह्मज्ञानेऽधिकारी न तनुः, जडत्वात् । यस्य पुंसो गर्भधानपुंसवनसीमन्तोन्नयनजातकर्मना- मकरणन्नप्राशनचौलोपनयनवेदव्रतचतुष्टयस्नानसहचारिणीसंयोगपञ्चमहायज्ञाः ष्टकापार्वणश्राद्धश्रावण्याग्रहायणीचैत्राश्वयुज्याख्यसप्तपाकयज्ञसंस्थाग्न्याधेयानि होत्रदर्शपूर्णमासचतुर्मास्याग्रयणेटिनिरूढपशुबन्धसौत्रामण्याख्यप्तप्तहविर्यज्ञसं । स्थाग्निष्टोमात्यग्निष्टोमोक्थ्यषोडशिवाजपेयातिरात्राप्तोर्यामाख्यसप्तसोमसंस्था इ त्येते चत्वारिंशत्संस्काराः अष्टौ च दयान्त्यनसूयाशौचानायासमङ्गला- कार्पण्यास्पृहाख्याश्वत्मगुणाः, स ब्रह्मणः सायुज्यं ब्रह्मणा हिरण्यगर्भाग सहैकत्वं सालोक्यं समानलोकतां च गच्छति ; तत्र प्रलये परे ब्रह्मणि लीयत इति क्रममुक्तिं दर्शयति । तदुक्तम्-- ॐ ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मनः प्रविशन्ति परं पदम् ॥" इति । 28-4, मतान्तरमाह-अन्यं विति । एतदेव पुरुषसंस्कारकत्वं विपरीतं यकर्मणामारमज्ञानाधिकारं प्रयुक्तम्, तदात्मज्ञानस्यैव कर्माधिकारं प्रति वर्ण यन्ति । तदेवाह--आत्मज्ञानमित्यादिना । देहव्यतिरिक्तनित्यकर्तषोक्त्रा- त्मविद एव स्वकर्मस्वधिकारःनेतरस्य । तथा चोक्तम्-- " न ह्यनध्या त्मवित् कश्चित् क्रियाफलमुपाश्नुत " इति । तेन कर्मसूपयोक्ष्यमाणस्य कर्तुरयं संस्कार इति भावः । मतान्तरं च--अन्ये त्विति । साध्यसाधनादिवैतविषयं कर्म, “ एक मेवाद्वितीयम् ” इति चाद्वैतविषयमात्मज्ञानम् ; अतोऽनयोः परस्परविरोधादसं- बन्ध एवेत्यन्ये मन्यन्ते । एवं सप्तपक्षानुपन्यस्यायं पक्षे दूषयते --तत्रेति । कर्प इति कल्पने त्यर्थः । कुत इत्याह---न हीति । कमदीत्यादिशब्देन गोदोहनादिद्रव्य- विधयऽभिमताः ; यद्द कशब्देन प्रवृत्तिलक्षणो धर्म उक्तः, आदिशब्देन तु निवृत्तिलक्षणं तपः; तद्विधयः ; ते स्ववाक्यसमधिगतस्वर्गादिकार्याः