पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 वक्षसिद्धिव्याख्या णेनात्यन्तमदृष्टोऽनवगतसंबन्धतया पदादनवगम्यमानः पदार्थसंसर्गात्मके वाक्यार्थे गुणत्वेन प्रधानत्वेन वा नानुप्रवेशमर्हति । तस्मान्न शब्दप्रमाणकं ब्रह्म । अपि च निरस्तसमस्तविशेषणं ब्रह्मतत्वं प्रतीतिगोचर एव न भवति । कथम् ? सर्वा हि प्रतीतिः ‘एवंप्रकारमिदम् , नान्यप्रारम्’ इत्येवं वस्तु व्यवच्छिन्दती प्रवर्तते, अन्यथा प्रतीतिरेव न स्यात्; निरस्तसमस्तप्रकारे तु . तत्र ब्रमणि कथं प्रतीतिः स्यादित्येवं प्रमाणाभावेनाद्वयं बलाक्षिप्य . 8. प्रमाणमाह-आम्नायत इति । निरूपणाम्’ इत्यत्र प्रचक्षत इत्यनु- ९ यत्तावदुक्तम्—सिडनुवादित्वे वेदस्य प्रमाणान्तरसापेक्षस्वं स्यादिति, तत्तावन्नास्तीति नियोगकाण्डे वक्ष्यामः ! यच्चोक्तम्—कार्यनिष्ठान्येव लौकिक वाक्यानति, तदपि नैकान्तिकम् ; अकार्यनिष्ठान्यपि हि प्रियाख्यानानि प्रियमा ख्यायते यैस्तानि ‘पुत्रस्ते जातः’ इत्यादीनि वाक्यानि प्रवृत्तिनिवृत्तिप्रयोजन- शून्यानि लोके सन्ति न च तावता निष्प्रयोजनन्येव, पितृसुखोत्पाद प्रयोजनत्वात् । न च तत्र ‘सुखी भव ’ इति प्रवृच्युपदेशः करुष्यः , ज्ञातपुत्रजन्मवस्तुसामर्यादेव सुखित्वसिडेरुपदेशानपेक्षत्वात् । अथ मतम्- अस्ति तावत्तत्र पितुः सुखे प्रवृत्तिः; तत्रैव वचसस्तात्पर्यम्; अतस्तदपि प्रवृत्तिनिष्ठमेव । सत्यम् ’ ‘पितुः सुरवमुत्पद्यताम्’ इत्यभिसंघानेन प्रयुक्तत्वा द्वाक्यस्योत्पत्तिरूपेणास्ति तत्र तात्पर्यम्; न तु ततो वाक्यारप्रधानतया सुखप्रवृत्तिः प्रतीयताम’ इत्येवं प्रतीतिरूपेण, तद्वाचकपदाभावात्; अपने दार्थस्य चावाक्यार्थत्वात्; यतः प्रतीतिः सिद्धार्थनियैव । एतच्चाभ्युपे त्योक्तम्; न तु सुखे प्रवृत्तिरस्तीति वक्ष्यति । न च पितृसुरखोत्पादप्रयो जनववे सति सिद्धार्थपर्यवसितस्यैव शब्दस्य " पूषा प्रपिष्टभागः” इति वत् प्रवृत्तिपर्यन्तो व्यापारः शक्यः कल्पयितुम् ; तेन सिद्धार्थनि धूमेव । तद्वाक्यम्, न प्रवृत्तिनिष्ठम् । अपि च भवृत्तिनिष्ठत्वेऽपि न तावत् पुत्र जन्मानि सुवोपाये पुरुषाऽप्रवृत्तः प्रवर्यःतस्य सिद्धत्वात्; नाप्युपेये सुखे उपायाज्ञानेन पूर्वमप्रवृत्त उपायज्ञापनद्वारेण प्रवर्यः; वाक्यार्थज्ञानोत्तर कालीने हि वब्यापारे पुरुषः प्रचणैः; न च सुखस्य सिद्धये व्यापा रान्तरमस्ति, ‘पुत्रस्ते जातः' इति वाक्यार्थज्ञानादेव तदुपतेः । एतेन