पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मकाण्ड 81 केन पुनः प्रमाणेनास्य प्रथमश्लोकोक्तस्याद्वयात्मतत्वरूपस्यार्थस्यावगमः ? न तावत् प्रत्यक्षेण, तस्याभेदविपरीतनीलपीतादिभेदविषयत्वात् । नाप्यनुः मानेनतस्य लिङ्गिलिङ्गवादिभेदग्राहकप्रत्यक्षपूर्वकस्वात्; तदभावे चाभावात् अभेदप्रत्यनीकत्वात् । नाप्युपमानेन, तस्य भेदाधिष्ठानसादृश्यविषयत्वेन मेदसापेक्षत्वात् । अनुमानोपमाने झेदसापेक्षे, न तु भेदं साक्षान् गृहीतः ; प्रत्यक्षे तु गृहदपि वस्तूपसर्जनं गृह्वाति, न तु तमेव साक्षात् । अथो पत्तिः पुनरभेदविपर्यये भेद एव साक्षात् प्रमाणे सुतरां प्रतिपक्षभूता ; यतो न भेदमन्तरेण प्रमातृप्रमेयादिभेदव्यवहारः क्वचिदुपपद्यते ; अपेक्षित- असौ; अन्यथा तं विना निगेंदब्रह्मवगमोऽपि न स्यात् । अभावोऽपि न भावरूपं ब्रह्मणे तावत् प्रमाणम् । न च प्रपञ्चभावं, तस्य प्रमाण- पञ्चकाभावरूपस्य प्रत्यक्षादिषु सत्वसंभवत् । आगमस्य बहुवक्तव्यत्वात् पूवेमुपमानाद्यभाव उक्त इति द्रष्टव्यम् । एवमागमस्याप; यस्य तावदाप्तः प्रणेता, स प्रमाणान्तराधिगतवस्तुविषयवत् तद्गोचरे ब्रह्मणि न प्रमाणम् । नापि वेदःतस्य विधिनिषेधात्मकत्वात्; विधिनिषेधयोश्च सिद्धे बलतस्वेऽ संभवात् । न च विधिनिषेधावनपेक्ष्य सिद्धे वस्तुनि शब्दस्य प्रामाण्यं युक्तम्; तथा हि- घठोऽयमितिवत् सिडनुवादत्वे प्रमाणान्तरापेक्षा स्यात्; न च तदलौकिके ब्रह्मणि संभवतीत्यप्रामाण्यमेव स्यात् । इतश्च सिडेऽर्थे न वेदस्य प्रमाण्यम्; यतो लकं शब्दस्य वाचकसामथ्यवगमः, तत्र च कार्यपरतयैव कार्यान्वयित्रार्थे पदानि प्रयुज्यन्ते, तथा प्रयोजनवात; अन्यथा निष्प्रयोजनानि स्युः । किं च न सिडनुवादात् शब्दस्य वाच्यवाचकसंबन्धावगमः, किं तु प्रवर्तकाद्वाक्यात्; यतः 'पिकमनय इत्युक्ते प्रेष्यश्य प्रवृच्यार्थप्रत्ययं विननुधपद्यमनया तस्पर्थप्रत्ययमनुमाय शब्दानन्तर्यात् तन्निमित्तान्तरादर्शनाच्च ‘शब्देनयं कृतः ’ इति तस्य तत्र सामर्यमवगम्यते ; ततश्च प्रवृत्तिसंबनेघेन व्युत्पन्नशक्तयः शब्दा न सिद्दी ब्रह्मवगमयितुमलमिति न तत्र प्रमाणम् । किं च ब्रह्मणः प्रमाणान्तरेण सिद्धत्वे शब्दस्यानुवादकत्वादप्रामाष्यम्, असिद्धत्वे नतराम् अज्ञातस्य हि बलणः पदेन संबन्धाज्ञानादपदार्थत्वे वाक्यार्थत्वायोगात् । कथम् ? पदार्थ एव पदार्थान्तरविशिो वाक्यार्थो भवति ; ब्रवपदार्थस्त्वन्येन प्रमा