पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 प्रवृत्तिवत् । बालादनां निश्चयो धर्मी शब्दानुविद्धःअस्मदादिसविकल्पक निश्चयवत । तेषां चेह जन्मनि शब्दव्युत्पत्तिविरहेऽपि पूर्वजन्मव्युत्पन्न शब्दसंस्कारभाजां संभवति हृदयस्थशब्दानुवेधः; अनुचरणं तु करणपाटवा भावादिति परानुपलम्भोऽपि न दोष इति भावः । ततः किमित्याह तथा चेति । तच्छब्दाभ्यां वाचः परामर्शः । यद्यपि विपरिणामोऽर्षि पूर्वमुक्तःतथापि विवर्त एवास्य खमतमिति स एवोपसंहृतः । इतश्च शब्दविवतों जगदित्याह-अपि चेति । व्यावहारिका इति ; व्यवहाराय प्रभवन्ति, व्यवहारमात्रसिद्धा इत्यर्थः । तेषामेव तर्हि शब्दविवर्तत्वमस्तु, नेतरेषामित्यत् आह-तदिति । अन्येऽपि शब्दार्थाः शब्दविवर्ती, शब्दार्थत्वात् विध्यादिवदिति प्रयोगः । तानुदाहरति--यथेति । वाक्यार्थः संसर्गः, समूहो वनादिः , असन्तश्व प्रसिद्धा एव । तत्र विधिनिषेधयोस्ताव- च्छब्दविवर्तान्मत्वमाह--तत्रेति । प्रवृत्तिनिवृत्ती’ इतिपदेन प्रवर्तकनिवर्तक लक्षयति; ते एव पुरुषव्यापाररूपेण कार्यतयावगते विधिनिषेधाविति भावः। ननु कार्यं प्रतिनिवृत्ती विधिनिषेचौ, न कादरूपावच्छिन्ने; अतो न त्रिधा प्रयोगस्याविशेष इत्यभिप्रायेणाशङ्कयति-का” इति । तदूषयति नेति । कालत्रयातिरेकेण कार्यत्वं नाम चतुर्थे गत्यन्तरं न निरूप्यत इत्यर्यः; कार्यत्वमपि भूतं भविष्यद्वर्तमानं वा स्यादिति भावः । उपसंहरति तस्मादिति । अवस्तुकमिति ; अविद्यमानबाखविधिनिषेधवस्तुकमित्यर्थः । ततः किमित्याह--न चेति । तथापि किभित्याह--न चेति । प्रकृतमुपसंहरति तस्मादत । यदापि प्रवृत्तिनिवृत्ती विधिनिषेधाविति व्याख्यानम्, तदापि कार्थत्वधमपेते प्रवृत्तिनिवृत्ती विधिनिषेधौ, न स्वरूपेण ; तेन कार्यत्वमेव प्रयोजकमिति मन्वानः प्रवृत्तिनिवृत्यनुगुणमिति कार्यत्वमेव भेदेनाहेत्य विरोचः । तथा ‘नीलमुत्पलम्’ इति वाक्यार्थोऽपि संसर्गः तद्विशिष्टे वा. स्यात् तत्र न तावत्संसर्गः, संसर्गिव्यतिरिक्तस्य तस्याभावात् । कयम्? तद्वयतिरेके तस्य घटपटयोरिव संसर्गान्तरापरेभनवस्थानात्; व्यतिरेका व्यतिरेकौ तु न संभवत इति वक्ष्यामः। अव्यतिरेके तु पदार्थ एव, न संसर्गः अत एव न संसर्गा असंसर्गरूपारपदार्थात भिन्नोऽस्ति, यो वाक्यार्थः स्यात्। तस्मात् प्रतिभामात्रमिदम्। न च सा निरालम्बना संभवति; न च शब्दोपरागरहितः