52 बझसि डिव्याख्या सविकल्पकः प्रत्ययोऽस्ति ; तस्माद्वक्तच्वमेव तथा तथा चकास्तीत्याह-एव- भिति । तथा वनादावप्यसति वस्तुनि वस्तुबुद्धिर्भवन्ती वाक्तत्वमेवालम्बत इत्यति दिशति--एवमिति । इदानीं गानशास्त्रानभिज्ञस्य षड्जादिषु गपादिषु च । निर्विकल्पकं शब्दानुवेधशून्यं ये ज्ञानमिच्छन्ति, तान् प्रति--यद्यापि षड् जादिषु यज्ञादिशब्दाभावेऽपि ‘गानमिदम्’ इत्यादिसामान्यशब्दानु रोधोऽस्ति ; यद्यपि च निर्विकल्पकेऽपि सूक्ष्म वागस्ति इत्युत्तरमास्ति ; तथापि तन्मतमेवोपजीव्य- सर्वज्ञानेषु प्रकारान्तरेण शब्दानुवेधमुपपादयति-- अपि चेति । अतादृक्त्वमेवाह- अविविक्ता हीति । तथा चोक्तम्
- गानमात्रं विजानन्ति तत्रानधिकृतास्तु ये ।
विवेकं प्रतिपद्यन्ते येषां तरसंस्कृता मतिः ॥ " इति । शब्दानुविद्धा प्रतिपत्तिर्विवेकवतीत्येतछोकव्यवहारेण द्रढयति- तथा चेति । ततः किमित्यत आह--एवं चेति । शब्दसंस्परों साति विवेकवतोऽर्थबोधस्य व्यवहारोपयुक्तविवेकवत्तयोत्कर्षदशेनात् , तत्प्रति संहरे शब्दाभवे संचेतितानामप्यसंचेतितकल्पत्वात् ; कुतः ? पथि गच्छतः पुंसः पत्न्यां स्पृश्यमानानामपि गुच्छतृणादीनामपकर्षात्; अतोऽ न्वयव्यतिरेकाभ्यां वाश्रुपाधीनमेव चितेश्चिन्नित्वमिति बलादापद्यत इत्यर्थः । अर्थप्रकाश्रमकत्वं हि चितेश्चितित्वम् , न वस्तुमात्रत्वम् ; तच्च शब्दसंस्पर्श सयुकृष्यते, तदभावे चापमुप्यते; तस्माद्दाश्रुपाधीनं चितेश्चितित्वं नाम रूपम् । मतान्तरमाह--वाक्शक्तिरिति ; वाचोऽर्थप्रकाशशक्तिचंक्शक्तेः । वाक्शल क्तिच्चिति, कथं तर्हि वागुपसंहारेऽर्थश्चैत्यत इत्यत आह--तत्रतीति । तत्रापि चितिश्चेदस्ति, अस्ति सूक्ष्मा वाक्, चितेर्वाक्शक्तित्वात् । ततः किमित्यत आह--सर्वथेति ; सर्वथा वqपाधीनत्वे वाक्शक्तिवे चेत्यर्थः । हेतौ इति 'शब्दः । ‘मृदः' इति विकारे‘चन्द्रमस.’ इति विवर्ते दृष्टान्तः । अतश्च वागात्मकं सर्वम्; वाच " यथा शकुना " इति श्रुते- ओंकारात्मिका; तेनैकारः सर्वः; सर्व च ब्रह्म; अत ओंकारो ब्रतेति सिद्धम् ।