सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलझण्डः 49 वर्णात्मना भूत्रेण सर्वस्यकारात्मत्वम्, किं तु प्रत्यक्षाद्यनवसेयेनागमगम्ये नात्मनां; अतो न प्रत्यक्षाद्यनुपलब्धिविरोध इत्यर्थः । ननु शास्त्रैकगम्येऽपि प्रत्यक्षाद्यनुपलब्धिविशेषोऽत्येव, कथमविरोध इत्याशङ्कयाह-न हीति । प्रमाणान्तरेण प्रत्यक्षादिना, अनवगमः अनुपलब्धिः, प्रमाणान्तरस्य शास्त्रस्य, विषयं सर्वस्य ओंकारात्मत्वं घर्मादिकमिव नापहरति न बाधते । न हि शास्त्रगम्यं धर्मादि प्रत्यक्षाद्यनुपलब्धितोऽसत् मवतीत्यर्थः । इतश्चार्थवादो क्तमपि सर्वात्मत्वमोंकारस्य विवक्षितमित्याह--तस्मादिति । ‘तस्माद्विद्वाने तेन परं पुरुषम् ” इति ज्ञानिनोऽधिकारः श्रुतः; ज्ञानी च प्रत्यास रॉकारसर्वात्मत्वज्ञानी ; तच्चास्य नान्यतः प्रमाणात्, अनुपलब्धेः; अतः प्रत्यासत्तेरर्थवादाज्जातं ग्राह्यम्; तस्मादनन्तरमेवार्थवादवाक्यपकारसर्वात्मत्वे पर्यवसितम्; न तदतिक्रमेण गौणपर्यवसानम्; तत् पुनर्योनविध्येकवाक्यतां नयति । ततोऽर्थवादाज्जातोंकारसर्वात्मत्वज्ञानस्य पुंसो व्यानोपदेशोऽयमिति सिद्धमोंकारस्य सर्वात्मत्वमिति भावः । पक्षान्तरमाह--अथवेति । विश्व इति ?' सेश्छन्दास बहुलम्” इति सेलेपः; सर्वाणीत्यर्थः । तत्र विश्व भुवनानि जने” इति भोग्यंवर्गस्य वागुपादानत्वेन वागास्मरवमुक्तम् उत्तरत्र तु वागभेदात् भोक्तृवर्गस्येति विवेकः । वागभेदश्च वाचः सर्वात्मन्धेन बलत्वात; ब्रक्षणश्च जीवानामभेदो द्रष्टव्यः । तथा वाचैव स्वयमात्मनः सर्वात्मत्वमुक्तमिति सदृष्टान्तमाह--तयेति : वसुरुद्रादिमिः सह चरामि, तेष्वनुगतास्मीत्यर्थः । पूर्वमोंकारस्य सर्वात्मत्वमुक्तम्; अधुना तु वाक्शब्द वाच्यस्य शब्दतवस्य सर्वनामरूपविकल्पविशेषास्पदस्य सर्वात्मत्वमुक्तमिति मेदः । तदुक्तम्-"अनादि निधनं ब्रह्म शब्दतवं यदव्ययम् ।“ इति । एवमागमबलेन वाचः सर्वात्मत्वमुक्त्वा संप्रस्यनुमानबलेनाह-अपि तेि । प्रकृतिरूपान्विता । विकारा इति व्याप्तिकथनम् ; वायूपान्वितानामिति च पक्षधमपनयः ; अत इत निगमनम् । तदयं प्रयोगार्थः-जगद्धर्मवाचः परिणामो विवर्ता वेति साध्यो धर्मः; तदजातिगुणभूतेन वायूपेणान्वितत्वातु यद्यदजातिगुणभूतयडूपान्वितं तत्तत्परिणामस्तद्वितों बा; यथा--घटादयो भृदूपान्विता मृदः परिणामाः, यथा वा बिम्बरूपान्वितं प्रतिबिम्बं बिन